Sri Vaishnava Hawan Paddhati In Nepali

द्रष्टव्यं :
स्तोत्रेषु कुत्रापि अशुद्धो विद्यते तु अधः कमेन्टकोष्ठे संसूचयन्तु तेन महान्तः धन्यवादाः

 श्रीमते रामानुजाय नमः ॥
श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ॥
सचित्र नेपाली भाषामा
सरलहवनविधिः प्रारम्भः
प्रारम्भमा आसनमाबसी आचमनगरेर तलकामन्त्रले तामा या पित्तलको पात्रमा कर्मपात्र निर्माण गर्ने
कर्मपात्रमा शंखचक्र लेखेर पात्रमा अभिमन्त्रण गर्नुहोस्।

 

ॐ यद्देवा देवहेडनन्देवासश्चकृमा व्वयम् ।
अग्निर्म्मा तस्मादेनसो व्विश्वान्मुञ्चत्वᳩहसः ॥

ॐ यदि दिवा यदि नक्तमेनाᳩसि चकृमा व्वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥

ॐ यदि जाग्रद्यदि स्वप्नऽएना सिᳩचकृमा व्वयम् ।
सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥ 

 कर्मपात्रमा पवित्रराख्ने  मन्त्र 
ॐ  पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्यरश्मिभिः ।
तस्यते पवित्रपते पवित्रपूतस्ययत्कामः पुने तच्छकेयम्‌ ॥
कर्मपात्रमा जलराख्ने मन्त्र
ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तु पीतये । शंय्योरभिस्रवन्तु नः ।

चन्दन राख्ने मन्त्र
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‌ ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्‌ ॥

 तिल राख्ने मन्त्र
ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः ।
प्रत्क्नमद्भिः पृक्तः स्वधया पितृँल्लोकान्‌ प्प्रीणाहिनः स्वाहा ॥ 
जौ राख्ने मन्त्र
ॐ यवोसियवयास्मदद्वेषोयवयारातिःदिवेत्वान्तरिक्षायत्वा पृथिव्यैत्वाशुन्धन्ताँल्लोकाः पितृषदनाः पितृषदनमसि ॥ 
अक्षता राख्ने मन्त्र
ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत ।
अस्तोषतस्वभानवो व्विप्प्रानविष्ठयामतीयोजान्न्विन्द्रते हरी ॥
फुल राख्ने मन्त्र
ॐ श्रीश्चते लक्ष्मीश्चपत्क्न्यावहोरात्त्रेपार्श्वेनक्षत्राणि रूपमश्विनौ व्यात्तम्‌ ।
इष्णन्निषाणामुम्मऽइषाण सर्व्वलोकम्मऽइषाण ॥ 
अब  कर्मपात्रको अभिमन्त्रितजलले पूजन सामाग्री र यजमानलाई अभिषेक गर्ने
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोपि वा ।
यः स्मरेत्‌ पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचि: ॥
ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु ।
 पञ्चगव्य विधानम्‌ 
 
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । 
    इदृशं पञ्चगव्यं च पवित्रं कायशोधनम् 
अब वेदीको पूर्व दिशामा चामल आदिले चतुरस्र स्थण्डिलबनाउने र कुंकुमआदिले पाँचकोठा बनाएर

 

१. पूर्वमा एकपला गोमूत्र ।
२. दक्षिणमा अंगुष्ठार्ध गोमय ( गोबर ) ।
३. पश्चिममा सातपला गाईको दुध ।
४. उत्तरमा तीन पला गाईको दही ।
५. बीचमा एकपला गाईको घ्यू ।
६. ईशानमा एकपला कुशोदक राखेर ।
 १. गोमूत्रमा विष्णुलाई आवाहन गरी पूजा गर्ने-

 ॐ विष्णोरराटमसिव्विष्णोः श्नप्त्रेस्थोव्विष्णोःस्यूरसिव्विष्णोर्धुवोसिव्वैष्णवमसिव्विष्णवे त्वा ॥
ॐ  विष्णवे नमः विष्णुम्‌ आवाहयामि स्थापयामि पूजयामि भनेर पूजा गर्ने ।

२. गोबरमा ब्रह्मालाई आवाहन गरी पूजा गर्ने-
ॐ ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतःसुरुचोव्वेनऽआवः ।
सबुध्न्याऽउपमाऽअस्यविष्ठाःसतश्चयोनिमसतश्चव्विवः । 
ॐ ब्रह्मणे नमः ब्रह्माणम्‌ आवाहयामि स्थापयामि पूजयामि भनेर पूजागर्ने ।
३ ॐ दुधमा अच्युतलाई आवाहनगरी पूजा गर्ने-
ॐ विष्णोर्न्नुकव्वीर्याणिप्प्रवोचंख्यः पार्थिवानिव्विममेरजा गूँ सि ।
योऽअस्कभायदुत्तर गूँ सधस्थंव्विचक्रमाणस्त्रेधोरुगायोव्विष्णवेत्त्वा ।
ॐ अच्युताय नमः अच्युतमावाहयामि स्थापयामि पूजयामि भनेर पूजा गर्ने ।
४. दहीमा शुक्रलाइ आवाहनगरी पूजागर्ने-
ॐ अन्नात्परिस्रुतोरसम्ब्रह्मणाव्यपिबत्क्षत्रं पयः सोमं प्रजापति: ।
ऋतेन सत्यमिन्द्रियंव्विपान 
 शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयो मृतं मधु ॥ 
ॐ शुक्राय नमः शुक्रमावाहयामि स्थापयामि पूजयामि भनेर पूजागर्ने ।
५. घीउमा श्रीकृष्णलाई आवाहनगरी पूजागर्ने-
ॐ कृष्णोस्यारेष्ठोग्नयेत्वाजुष्टम्प्रोक्षामिव्वेदिरसिबर्हिषेत्वा
जुष्टम्प्रोक्षामिबर्हिरसिस्रुग्भ्यस्त्वाजुष्टम्प्रोक्षाम्म्यदित्यैव्व्युन्दनम्‌ 
ॐ श्रीकृष्णाय नमः श्रीकृष्णम्‌ आवाहयामि स्थापयामि पूजयामि भनेर पूजागर्ने ।
६. कुशोदकमा सवितालाई आवाहनगरी पूजागर्ने-
ॐ पूषन्नेकर्षेयमःसूर्यप्राजापत्य व्यूहरश्मीन्‌ समूह तेजो यत्ते
रूपं कल्याणतमं तत्ते पश्यामि यो सावसौ पुरुषः सोहमस्मि ॥
ॐ सवित्रे नमः सवितारमावाहयामि स्थापयामि पूजयामि भनेर सूर्यको पूजागरेर साष्टाङ्गप्रणाम गरी पंचगव्य एकैठाउ मिलाउने।
अव तलको मन्त्रले पंचगव्य  प्राशनगर्ने  ।
ॐ  यत्वगस्थिगतं पापं देहे तिष्ठति तावके ।
प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम्‌॥
प्रतिज्ञा संकल्पः
हरिः ॐ तत्सत्‌ ३  ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य श्रीभूनीलानायकस्य सौशील्यादि सकलकल्याण-गुणगणसमलंकृतस्य श्रीमन्नारायणस्य नाभिकमलोद्भवस्य भगवदाज्ञया सकलजगत्सृष्टिं कुर्वतः  अखिललोकपितामहस्य ब्रह्मणो द्वितीये परार्द्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीये यामे तृतीये मुहूर्ते अष्टमे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे श्रीमन्नृपतिविक्रमार्कराज्याद्‌ , श्रीमद्रामानुजमुनि प्रादुर्भावाद्वा अमुक ….सम्वत्सरे वर्तमाने अमुक …अयने अमुक…. ऋतौ अमुक….. मासे अमुक…..पक्षे अमुक…..तिथौ अमुक…..नक्षत्रे अमुक….योगे अमुक…करणे अमुक…राशिस्थिते चन्द्रे अमुक…राशिस्थिते सूर्ये अमुक…राशिस्थिते वृहष्पतौ  शेषेषु ग्रहेषु तत्तत्स्थान स्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ जम्बूद्वीपे भारतवर्षे अमुक…राज्ये अमुक…नद्याः समीपे अमुक… ग्रामे अमुक…….. देव सन्निधौ वर्तमाने अमुक…….वेदान्तर्गत अमुक..शाखाध्यायी अमुक…प्रवरान्वित अमुक…गोत्रोत्पन्नः अमुक…नामाहं (अमुकशर्मा वर्मा गुप्तो दासोऽहं ) भगवत्कैङ्कर्यरूपेण भगवन्मुखोल्लासार्थम्‌ अमुकामुक समाराधन पूर्वकम्‌ अमुक…कर्मकरिष्ये करिष्यामि वा ।
अब चुडाकरणादि संस्कारहरुमा त प्रायश्चित्तकानिमित्त गोदान गर्ने ।
पहिला हातमा पुष्प चन्दन अक्षता आदि लिएर प्रार्थनागर्ने –
अथ गोदानविधिः
ॐ  अपश्याम युवतिमाचरन्तीं मृताय जीवां परिणीयमानाम् ।
अन्धेन या तमसा प्रावृताऽसि प्राचीमवाचीमवयन्नरिष्ट्यै, इति
मयैतां माꣳस्तां भ्रियमाणा देवी सती पितृलोकं यदैषि ।
विश्ववारा नभसा संव्ययन्त्युभौ नो लोकौ पयसाऽऽवृणीहि, इति ।
रयिष्ठामग्निं मधुमन्तमूर्मिणमूर्जः सन्तं त्वा पयसोपसꣳसदेम ।
सꣳ रय्या समु वर्चसा सचस्वा नः स्वस्तये, इति ।
ये जीवा ये च मृता ये जाता ये च जन्त्याः ।

तेभ्यो घृतस्य धारयितुं मधुधारा व्युन्दती, इति ।
माता रुद्राणां दुहिता वसूनाꣳ स्वसाऽऽदित्यानाममृतस्य नाभिः ।

यसरी गोसूक्त पढेर गाईमा पुष्प समर्पणगर्ने

ॐ सुं सुरभ्यै नमः यस मन्त्रले पुष्प अक्षता चन्दन वस्त्र नैवेद्य आदिद्वारा गाईलाई पूजा गरेर
आकृष्णेन यसमन्त्रले ब्राह्मणको पूजागर्ने
ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यञ्च ।
 हिरण्ययेन सविता रथेनादेवोयाति भुवनानि पश्यन्‌ ॥ 
त्यसपछि कर्मपात्रको जलले गाईलाई सम्प्रोक्षणगर्ने
ॐ नमो गोभ्यःश्रीमतीभ्यःसौरभेयीभ्य एव च।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥
ॐ इरावती धेनुमती हि भूत  सूयवसिनी मनवेदशस्या ।
 व्यस्क्कम्भ्ना रोदसी विष्णवेतेदाधर्थपृथिवीमभितो मयूखैः स्वाहा ॥
अब अर्घ्यपाद्यआचमनीयनैवेद्यवस्त्रएवं धूप दीपले गाईकोपूजा गरिसकेपछि अङ्गपूजा गर्नेपृष्ठभागमा-
पिठिउमा ॐ ब्रह्मणे नमः
गलामा ॐ  विष्णवे नमः
मुखमा ॐ रूद्राय नमः
रोमकुपहरुमा  ॐ सर्वेभ्यो महर्षिभ्यो नमः
पुच्छरमा ॐ सर्वनागेभ्यो नमः
स्तनहरुमा ॐ चतुस्समुद्रेभ्यो नमः
खुरहरुमा  ॐ अष्टकुपर्वतेभ्यो नमः
दुवैनेत्रमा ॐ शशिभास्कराभ्यां नमः
सिङको  मध्यमा  ॐ सर्वतीर्थेभ्यो नमः
मूत्रस्थानमा ॐ गङ्गादि सर्व तीर्थेभ्यो नमः
गोवरमा ॐ  लक्ष्म्यै नमः
दुबैकानमा ॐ अश्विनीकुमाराभ्यां नमः
जिभ्रोमा ॐ  सरस्वत्यै नमः
नाकको प्वालमा ॐ  सुमुखाय नमः
पेटमा ॐ पृथिव्यै नमः
दाहिनेपट्टी ॐ  कुवेराय नमः
वायाँपट्टी ॐ  वरुणाय नमः
हुङ्कारमा ॐ सर्वदेवेभ्यो नमः ।
 यसरी अङ्गपूजागरेर गाइकोप्रार्थनागर्ने
 
पृष्ठे ब्रह्मा गलेविष्णुर्मुखेरुद्राः प्रतिष्ठिताः ।
मध्ये देवगणाः सर्वे रोमकूपे महर्षयः ॥
नागाः पुच्छे खुराग्रेषु ये चाष्टौकुलपर्वताः ।
मूत्रे गङ्गादयो नद्या नेत्रयोः शशिभास्करौ ॥
 
शृङ्गयोः सर्वतीर्थानि गोमये कमलालया ।
स्तनेषु सागराः सर्वे जिह्वायां च सरस्वती ॥
कर्णयोरश्विनौ नासापुटयोः सुमुखः स्मृतः ।
दक्षपार्श्वे कुवेरस्तु वामे जलधिनायकः ॥

हुङ्कारे सर्वदेवाश्च धरा चैवोदरे स्थिता ।
एते यस्याः स्तनौ देवाः सा धेनुर्वरदास्तु मे ॥
या लक्ष्मीःसर्वभूतानां यत्र देवा व्यवस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥
अब गाइकोपुच्छरद्वारा आफ्नाशिरमा अभिषेकगर्ने-
ॐ  मनोमेतर्पयतव्वाचम्मेतर्पयतप्प्राणम्मेतर्पयत चक्षुर्म्मेतर्पयतश्श्रोत्रम्मेतर्पयतात्त्मानं मे तर्पयतप्प्रजाम्मेतर्पयत पशून्मेतर्पयत गणान्मेतर्पयत गणा मे मा वितृषन्‌ ॥ 
अब हातमा जलअक्षताआदिलिएर सङ्कल्पगर्ने
संकल्प
हरिः ॐ तत्सत्‌ ३  ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य श्रीभूनीलानायकस्य सौशील्यादि सकलकल्याण-गुणगणसमलंकृतस्य श्रीमन्नारायणस्य नाभिकमलोद्भवस्य भगवदाज्ञया सकलजगत्सृष्टिं कुर्वतः  अखिललोकपितामहस्य ब्रह्मणो द्वितीये परार्द्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीये यामे तृतीये मुहूर्ते अष्टमे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे श्रीमन्नृपतिविक्रमार्कराज्याद्‌ , श्रीमद्रामानुजमुनि प्रादुर्भावाद्वा अमुक ….सम्वत्सरे वर्तमाने अमुक …अयने अमुक….ऋतौ अमुक….. मासे अमुक…..पक्षे अमुक…..तिथौ अमुक…..नक्षत्रे अमुक….योगे अमुक…करणे अमुक…राशिस्थिते चन्द्रे अमुक…राशिस्थिते सूर्ये अमुक…राशिस्थिते वृहष्पतौ  शेषेषु ग्रहेषु तत्तत्स्थान स्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ जम्बूद्वीपे भारतवर्षे अमुक…राज्ये अमुक…नद्याः समीपे अमुक… ग्रामे अमुक…….. देव सन्निधौ वर्तमाने अमुक…….वेदान्तर्गत अमुक..शाखाध्यायी अमुक…प्रवरान्वित अमुक…गोत्रोत्पन्नः अमुक…नामाहं ( अमुकशर्मा वर्मा गुप्तो दासोऽहं ) भगवत्कैङ्कर्यरूपेण भगवन्मुखोल्लासार्थम्‌ रौप्यखुरां ताम्रपृष्ठां सुर्वणश्रृङ्गां मुक्तापुच्छां कांस्यदोहनीं सुरत्नमालिकां दुकूलादि परिवृतां सोपस्करां रुद्रदैवतां कृच्छ्चान्द्रायणरूपाम्‌ इमां गां गवार्थे परिकल्पितं द्रव्यं वा अमुकगोत्राय अमुकप्रवरान्विताय अमुकशर्मणे श्रीवैष्णवाय ब्राह्मणाय तुभ्यमहं दातुं उत्सृजे ।
यसरी जलाक्षतासहित गाईकोपुच्छरलाई ब्राह्मणको  हातमा दिने ।
 
ॐ  कोदात्कस्माऽअदात्त्कामोदात्कामायादात्‌।
कामो दाताकामः प्प्रतिग्ग्रहीता कामै तत्ते ॥ 
ब्राह्मणले स्वस्ती भनेर गाईको पुच्छर हातमा लिने सुवर्णादि द्रव्य लिएर पानि समाउने
अद्यकृतैतद्दानप्रतिष्ठार्थम्‌ हिरण्यादिद्रव्यं अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं दातुमुत्सृजे । 
यसरी दानप्रतिष्ठादिएर प्रार्थना गर्ने-
ॐ गावो ममैनः प्रणुदन्तु सौर्यास्तथासौम्याः स्वर्गयानाय सन्तु ।
आत्मानं मे मातृवच्चाश्रयन्तु तथानुक्ताः सन्तु सत्याशिषो मे ॥
ॐ  स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ।
सर्वपापहराधेनुःतस्माच्छान्तिं प्रयच्छ मे ॥
यसरी गाई र ब्राह्मणलाई पनि प्रदक्षिणागरी अभिवादनगर्ने विप्रले पनि गाईको पुच्छरले यजमानलाई अभिषेक गरिदिने
ॐ द्यौः शान्तिरन्तरिक्ष ꣳ शान्तिः पृथिवी शान्तिरापः शान्ति रोषधयःशान्तिः ।
व्वनस्प्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व ᳩ शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ।

॥ इति गोदानप्रयोगः ॥

अथ पञ्च भूसंस्काराः

 

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्‌ ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥
सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम्‌ ।
वन्दे रामानुजार्यस्य नित्यं पादाम्बुजद्वयम्‌ ॥

निम्नमन्त्र उच्चारणगरी यज्ञभूमि शोधनगर्ने-

ॐ भूरसिभूमिरस्यदितिरसिव्विश्वधायाव्विश्वस्य भुवनस्य धर्त्री ।
पृथिवी यच्छपृथिवीन्दृ ꣳ ह पृथिवीम्माहि ᳩ सीः ॥

मृत्तिकाको स्थापन गर्ने  ( माटो राख्ने )
ॐ अश्माचमे मृत्तिकाचमे गिरयश्चमे पर्व्वताश्चमे सिकताश्चमे वनस्पतयश्चमे हिरण्ण्यञ्चमे यश्चमे श्यामञ्चमे लोहञ्चमे सीसञ्चमे त्रपुचमे ज्ञेनकल्पन्ताम्‌ । 
तीन कुश लिएर पढ्ने
ॐ एषवस्तोमो मरुतऽइयङ्गीर्मान्दार्य्यस्य मान्यस्यकारोः एषायासीष्टतन्वेव्वयांविद्यामेषंव्वृजनञ्जीरदानुम्‌ । 
कूशले वेदिमा सफागर्ने-

ॐ यद्देवादेवहेडनन्देवासश्चकृमाव्वयम्‌।
अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्व हसः 

गोबर र जलले भूमिलाइ सफागर्ने
ॐ मानस्तोकेतनयेमानऽआयुषि मानोगोषु मानोऽअश्वेषुरीरिषः ।
मानोव्विरान्रुद्रभामिनो वधीर्हविष्मन्तःसदमित्त्वा हवामहे ।

भूमीमा सुरोले उल्लेखन गर्ने ( खन्ने )
ॐ त्वामिद्धिहवामहे सातौवाजस्य कारवः ।
त्वां व्वृत्रेष्विन्द्रसत्त्पतिन्नरस्त्वाङ्काष्ठा सर्वतः 


शोधितगरीएको भूमीमा निम्नलिखित मन्त्रले पूर्वतिर सुरोले तीनवटा रेखा कोर्ने
ॐ  प्रथमाद्वितीयैस्द्वितीयास्तृतीयैस्तृतीयाः सत्येनसत्यंयज्ञेनयज्ञो यजुर्भिर्यजू ᳩ षि सामभिः सामान्यृग्भिऋच: पुरोनुवाक्याभि: पुरोनुवाक्यायाज्ज्याभिर्याज्यावषट्कारैर्वषट्काराऽआहुतीभिराहुतयो मे कामान्त्समर्द्धयन्तु भूः स्वाहा ॥
ॐ दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदशस्तोमो ग्रीष्मऽऋतुः क्षेत्रन्द्रविणं प्रतीचीमारोह ॥ 

ॐ प्रतीचीमारोहजगतीत्त्वावतु वैरूप ꣳ साम सप्तदश स्तोमोवर्षाऽऋतुर्व्विड्द्रविणमुदीचीमारोह ॥ 
ॐ  उदीचीमारोहानुष्टुप्त्वावतु व्वैराज  सामैकवि  शस्तोमः शरदृतुः फलन्द्रविणं मूर्द्धामारोह ॥ 
अब अनामिका ( साँइली ) र अङ्गुष्ठ  ( बुढीऔंलाले ) अघि कोरेको माटो उठाउने-
ॐ  सदसस्पतिमद्भूतं प्रियमिन्द्रस्य काम्यम्‌ ।
सनिम्मेधामयासिष ᳩ स्वाहा 
॥ 
त्यसपछि वेदीबाट झिकिएकोमाटो उत्तरमा फ्याँकिदिने
ॐ  व्व्रतङ्‌कृणुतव्रतङ्कृणुताग्निरब्रह्याग्निर्यञ्चोवनस्पतिर्यज्ञियः ।
दैवीन्धियं मनामहे सुमृडीकामभिष्टयेवर्चोधांयज्ञवाह स ꣳ सुतीर्त्थानोऽअसद्वशे ।
येदेवामनोजातामनोयुजो दक्षक्रतवस्तेनोवन्तु तेनःपान्तु तेभ्यः स्वाहा ॥ 
वेदीमा जललेअभिषेक गर्ने
ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तु पीतये ।
 शंयोरभिस्रवन्तु नः । 
॥ इति पञ्चभूसंस्कारा:॥
कुण्ड अथवा वेदीमा रंगवल्ली ( रेखी ) बनाई त्यसमाथी कुश राखेर स्वस्तिवाचन पाठगर्ने ।
अथवा पाठगर्दै रंगवल्ली( रेखी ) बनाउने
अथ स्वस्तिवाचनम्‌

अब हातमा पहेलो सर्स्यू लिएर मण्डपको वरीपरी छर्ने
पूर्वे रक्षतु गोविन्द आग्नेयां गरुडध्वजः ।
याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ॥
वारुण्यां केशवो रक्षेद्‌ वायव्यां मधुसूदनः ।
उत्तरे श्रीधरो रक्षेदैशान्यां तु गदाधरः ॥
ऊर्ध्वं गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रमः ।
एवं दशदिशो रक्षेद्‌ वासुदेवः सनातनः ॥
ॐ  रक्षोहणं व्वलगहनं वैष्णवीमिदमहन्तं व्वलगमुत्किरामि
यम्मेनिष्ट्योयममात्योनिचखानेदमहन्तंव्वलगमुत्किरामि यम्मे
समानो यमसमानोनिचखानेदमहन्तं वलगमुत्किरामि यम्मे
सबन्धुर्यमसबन्धुर्न्निचखानेदमहन्तंव्वलगमुत्किरामि यम्मेसजातो
यमसजातो निचखानोत्कृत्याङ्किरामि ॥
स्वराडसि सपत्कनहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्व्वराडस्य मित्रहा ॥ 
रक्षोहणोवोव्वलगहनः प्प्रोक्षामि वैष्णवान्‌रक्षोहणो वोव्वलगहनो वनयामि वैष्णवान्‌ रक्षोहणोवो वलगहनो वस्तृणामिवैष्णवान्‌ रक्षोहणौवां व्वलगहना उपदधामि वैष्णवी रक्षोहणौ वां वलगहनौ पर्यूहामिवैष्णवी वैष्णवमसि वैष्णवास्थ ॥
विनायकाविघ्नकरामहोग्रायज्ञद्विषो ये पिसितासनश्च ।
सिद्धार्थकैर्व्रजसमानकल्पैः मया निरस्तास्वगृहं प्रयान्तु ॥
अथ दिक्पूजनम्
 
अब वेदीको आठै दिशामा पूर्वादिक्रमले पूजागर्ने
पूर्वमा पूजा गर्ने
ॐ पृथिव्याः सधस्थादग्निम्पुरीष्यमङ्गिरस्वदाभराग्निम्पुरीष्यमङ्गिरस्वदच्छेमोग्निम्पुरीष्यमङ्गिरस्वद्भरिष्यामः ॥ 
दक्षिणमा पूजा गर्ने
ॐ अग्निश्चपृथिवी च सन्नतेते मे सन्नमतामदो व्वायुश्चान्तरिक्षञ्च सन्नतेते मे सन्नमतामदआदित्यश्चद्यौश्च सन्नते ते मे सन्नमतामदऽआपश्च वरुणश्च सन्नतेते मे सन्नमतामदः।
सप्तस 
 सदोऽअष्टमीभूत साधनी ।
सकामाँ अद्ध्वनस्कुरु संज्ञानमस्तु मे मुना । 
मा पूजा गर्ने
 ॐ वायोयेते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्त्सोमपीतये। 
उत्तरमा पूजा गर्ने
ॐ सोमो धेनु ꣳ सोमोऽअर्वन्तमाशु ꣳ सोमो वीरङ्कर्मण्यन्ददाति।
सादन्यं विदत्थ्य ꣳ सभेयम्पितृश्श्रवणं योददाशदस्मै ॥ 
आग्नेयमा पूजा गर्ने
ॐ अग्निदूतम्पुरोदधे हव्यवाहमुपब्रुवे । देवाँ२ऽआशादयादिह । 
नैर्ऋत्यमा पूजा गर्ने
ॐ कयानश्चित्रऽआभुवदूती सदावृधः सखा । कयाश चिष्ठयावृता । 
वायव्यमा पूजा गर्ने
 ॐ वायुरनिलममृतमथेदं भस्मान्त ꣳ शरीरम् ।
ॐ ३ क्रतोस्मर क्लिबेस्मर कृतꣳ स्मर ॥ 

ईशानमा पूजा गर्ने
ॐ ईशावास्यमिद ꣳ सर्वं यत्किञ्च जगत्याञ्जगत् ।
तेनत्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ 

यसपछि तलका तीन मन्त्रहरु पढ्दै वेदिको माझमा पूजा गर्ने
ॐ सूर्यरश्मिर्हरिकेशः पुरस्तात् सविता ज्योतिरुदयाँ२ऽअजस्रम् ।
तस्य पूषाप्प्रसवेषाति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥
ॐ प्रजापतेनत्वदेतान्न्यन्न्योव्विश्वारूपाणि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नोऽअस्तुवय ꣳ स्यामपतयोरयीणाम् ॥
ॐ सदसस्पतिमद्भूतं प्रियमिन्द्रस्यकाम्यम् ।
सनिम्मेधामयासिष ꣳ स्वाहा 
अथ भूवराहानन्तकूर्मपूजनम् 
अब ईशानादिक्रमले भू, वराह, अनन्त, कूर्मलाई चामल माथी कूशको कूर्च बनाएर स्थापनागर्ने र विनियोगपूर्वक पहेला अक्षताले पहिले भूदेवीलाई आवाहनगरी पूजन गर्ने
भूपूजनम् 

सुरुमा भूपूजनको लागि विनियोग गर्ने
ॐ भूरसीत्यस्य प्रजापतिऋषि: प्रस्तारपंक्तिश्छन्द:भूमिदेवता भूमिपूजने विनियोग: ।
ॐ  भूरसिभूमिरस्यदितिरसिव्विश्वधाया व्विश्वस्य भुवनस्य धर्त्रीं ।
पृथिवींयच्छपृथिवीन्दृ ꣳ ह पृथिवीम्माहि ꣳ सीः ॥

आगच्छ सर्वकल्याणि वसुधे लोकधारिणि ।
पृथिवि ब्रह्मदत्तासि कश्यपेनाभिवन्दिते ॥
भूमिमावाहयाम्यद्य धारिणीं सर्वदेहिनाम्‌ ।
सर्वभूतप्रतिष्ठाञ्च क्षितिं क्षोणीं सरस्वतीम्‌॥

एहि मे वसुधे देवि वरदे भूतभाविनि।
सर्वाश्रये महाभागे देववद्धयहारिणी ॥

अब भूमीमा दण्डवत्‌ प्रणाम गर्ने
ॐ  उद्भूतासि वराहेण कृष्णेन शतबाहुना ।
दंष्ट्राग्रैलीलया देवि यज्ञार्थं प्रणमाम्यहम्‌ ॥

त्यसपछी अर्घ्यस्थापना गर्ने र  घुँडाटेकेर भूमीलाई अर्घ्य प्रदान गर्ने

दध्यक्षत कुशाग्राणी क्षीरं दूर्वा तथा मधु ।
सिद्धार्थकैः सहप्रोक्तो ह्यष्टाङ्गोऽर्घः फलैः सह॥
 
यमेनपूजिते देवि धर्मस्य विजिगीषया ।
सौभाग्यं देहि पुत्राँश्च धनं रूपं च पूजिता ॥
 
पृथिवी देहि मे पुष्टि त्वयि सर्व प्रतिष्ठितम्‌ ।
गृहाणार्घ्यमिमं देवि सर्वकामांश्च देहि मे ॥
यसरी अर्घ्यप्रदान गरेर पञ्चोपचारलेपूजागर्ने
 
ॐ भूं  भूम्यै नम: अर्घ्यं समर्पयामि । ॐ  पृं पृथिव्यै नमः पाद्य समर्पयामि ।
ॐ  अं अचलायै नमः आचमनं समर्पयामि । ॐ  सं सर्वधात्र्यै नमः स्नानं समर्पयामि ।
ॐ अं अनन्तायै नमः नैवेद्यं समर्पयामि ।
त्यसपछि पुष्पलिएर प्रार्थनागर्ने
उपचारानिमां स्तुभ्यं ददामि परमेश्वरि ।
भक्त्या गृहाण देवेशि त्वामहं शरणं गतः ॥
त्यसपछि फल लावा दहि सातुको चारवटा पिण्ड बनाएर चन्दन आदिले अलंकृतगरी सम्भव भएमा वाँशकोपात्रमा नभए अन्य पात्रमा घीउमा भिजाएका बाती बालेर  हातमापुष्प जल अक्षता आदिलिई  भुमिलाई बली दिने ।

भो  भूदेवि समस्तपरिवारसहिते इमं बलिं गृहाण गृहीत्वा च मम शान्तिकर्त्री पुष्टिकर्त्री वरदा भव ॥

 हातमा लिएको जल अक्षता भूमीमा छोडी , प्रार्थना गर्ने

देशस्वामि पुरस्वामि गृहस्वामि परिग्रहे ।
मनुष्य धन हस्त्यश्व पशुवृद्धिकरी भव ॥
नमो नमो मेदिनिलोकमातरुर्व्यै महाशैलशिलाधरायै ।
नमो नमो धारिणि लोकधात्र्यै जगत्प्रतिष्ठे वसुधे नमोऽस्तु ते ॥ 
अथ वराहपूजनम्‌
अब वराह पूजनको लागि विनियोग गर्ने
वराह इति मन्त्रस्य प्रजापतिर्ऋषिः अनुष्टुप्छन्दः वराहो देवता वराहपूजने विनियोगः ।
ॐ वराहवः स्वतपसो विद्युन्महसो धूपयः ।
श्वापयो गृह मेधाश्‍श्चेत्येते मे ये चेमेऽशिमि विद्विषः ॥
देवमावाहयाम्यद्य नृवराहं महाबलम्‌।
बालेन्दु तुल्यदंष्ट्राग्रलीलोद्धतवसुन्धराम्‌॥
एहि मे देवदेवेश वराहामित विक्रम ।
निरस्ताशेषदैत्येन्द्र दीनभक्तजनप्रिय ॥
ॐ हूँ वराहाय नमः
यसरी वराहको आवाहनगरी अर्घ्यादि उपचारले पूजनगरेर हातमापुष्पलिई प्रार्थनागर्ने
 
दंष्ट्राग्रेणोद्धतागौरुदधिपरिवृता पर्वतैर्निम्नगाभिः
साकं मृत्पिण्डवत्प्राग्बृहदुरुवपुषानन्तरूपेण येन ।
सोऽयं कंसासुरारिर्मुरनरकदशास्यन्तकृत्‌ सर्वसंस्थः
कृष्णोविष्णु:सुरेशो नुदतु ममरिपूनादिदेवो वराहः ॥
अथ अनन्तपूजनम्‌
अब अनन्त पूजनको लागि विनियोग गर्ने
ॐ तन्मित्रस्येतिमन्त्रस्य कुत्सऋषि: त्रिष्टुप्छन्द: अनन्तो देवता अनन्तपूजने विनियोगः ।
ॐ  तन्मित्रस्य वरुणस्याभिचक्षेसूर्योरूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुसदस्य पाजः कृष्णमन्यद्धरितः सम्भरन्ति ॥
आवाहयिष्ये वरदमनन्तं दीप्ततेजसम्‌ ।
फणावलिगताशीर्ष महीमण्डलधारिणम्‌ ॥
 
एह्यनन्त महाभाग शेषाहे धरणीधर ।
शशाङ्कशतसंकाश नीलाम्बरपरीवृतः ॥
ॐ  भूर्भुवःस्वः अनन्ताय नमः
यसरी अनन्तको आवाहनगरी अर्घ्यादि उपचारले पूजन गरेर हातमा पुष्पलिएर  प्रार्थनागर्ने
ॐ नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ 
अथ कूर्मपूजनम्‌
अब कुर्म पूजनको लागि विनियोग गर्ने
ॐ  कूर्मस्त इति सौचीकोऽग्निर्ऋषिः जगतीछन्द: कूर्मो देवता कूर्मपूजने विनियोगः ।
 
ॐ कूर्मस्तऽआयुरञ्जरं यदग्ने यथा युक्तोजातवेदो नरिष्याः ।

अथावहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजातः ।

कूर्ममावाहयाम्यद्य धृतमन्दर पर्वतम्‌ ।

दुर्निरीक्ष्यातिगम्भीरमहासलिलगोचरम्‌ ॥
एहिकूर्म महाभाग सुधोत्पत्तिकराच्युत ।

मन्दराचल संघर्ष क्षणकण्डूयनोत्सव ॥

ॐ कूर्माय नमः

यसरी पहेला अक्षताले कूर्मको आवाहनगरी अर्घ्यादि उपचारले पूजनगरेर हातमा पुष्पलिएर प्रार्थनागर्ने
तुभ्यं नमस्त्रियां कूर्मः कूर्मरूपाय वेधसे ।
धारयन्नमराद्रिञ्च विबुधानन्ददायिने ॥
 

दिव्यामृतार्थमथिते महाब्धौ देवासुरैर्वासुकिमन्दराभ्याम्‌।
मज्जन्तमब्धौ धृतमद्रिमङ्गे तं कर्मरूपं प्रणमामि भक्त्या ॥

यसरी पूजन गरी प्रणाम गरेर दीप प्रज्वलन गर्ने

अथ दीपपूजनम्‌ 
दीप प्रज्वलन गर्दै तलका मन्त्र उच्चारण गर्ने
ॐ  पृष्टोदिविपुष्टोऽअग्निः पृथव्यांपृष्टोविश्वाऽओषधीराविवेश ।
वैश्वानरःसहसापृष्टोऽअग्निः सनो दिवासरिषस्पातु नक्तम्‌ ।
 
ॐ  स्थिरोभव वीड्वङ्गऽआशुर्भववाज्ज्यर्वन्‌ ।
पृथुर्ब्भव सुखदस्त्व मग्नेः पुरीषवाहणः ॥ 
 
ॐ  कर्मसाक्षिणे दीपनारायणाय नमः ।
दीपं आवाहयामि स्थापयामि पूजयामि ।

अब  आसन अर्घ्य पाद्य आचमन स्नान चन्दन अक्षता पुष्प धूप दीप नैवेद्य दक्षिणा आदिले दीप पूजनगर्ने र

दीपको  प्रार्थना गर्ने
 नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।
सहस्रनाम्नेपुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥
ईशानमा राखिएको कलशको पूजन गर्ने
 प्रधानकलशपूजनम्‌
स्वर्णं वा रजतं वापि ताम्रं मृण्मयमेव वा ।
अकालमत्रणं चैव सर्वलक्षण संयुतम्‌ ।
पज्चाशांगुलवैफुल्यमुत्सेध:षोडशांगुल: ॥
द्वादशांगुलकम्मूलम्मुखमष्टांगुलन्तथा ॥
 दुईवटा घडालाई तिलक वस्त्रादिले सजाएर ईशानकोणमा स्थापना गर्न तयार राखिएको भूमीलाई प्रार्थना गर्ने ।
 
ॐ भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महीत्वा ।
उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्याया दधे ॥
त्यो भूमिमा धान अथवा चामल राख्ने-

ॐ धानावन्तङ्करम्भिणमपूपवन्तमुक्थिनम्‌ ।
इन्द्रप्रातर्जुषस्वनः । 

 अब त्यस्मा कलशस्थापना गर्ने
ॐ कुम्भोवनिष्ट्ठुर्ज्जनिता शचीभिरय्यस्म्मन्नग्ग्रेयोन्न्याङ्गर्भोऽअन्तः ।
प्लाशिर्व्व्यक्तः शतधारऽउत्सोदुहेनकुम्भीस्वधाम्पितृब्भ्यः । 
कलशमा जल भर्ने
ॐ अपो देवीरुपह्वये यत्र गावः पिबन्ति न: । सिन्धुभ्यः कर्त्व ꣳ हविः। 
कलशलाई स्थीर गर्ने

ॐ  स्थिरोभव वीड्वङ्गऽआशुर्भववाज्ज्यर्वन्‌ ।
पृथुर्ब्भव सुखदस्त्व मग्नेः पुरीषवाहणः ॥

 कलशमा पञ्चपल्लव ( आँप,पीपल,वर,डुम्री,पाखरीका पातहरु ) राख्ने
अश्वत्थोदुम्बर प्लक्ष चूतन्यग्रोध पल्लवाः ।
पञ्चभंगा इति ख्यात्वा सर्व कर्मसु शोभनाः ॥
 
ॐ अश्श्वत्थेवोनिषदनं पर्णेवोव्वसतिष्कृता ।
गोभाजऽइत्किला सथ यत्सनवथपूरुषम्‌ ॥
कुशको कूर्च राख्ने-
ॐ  पवित्रन्ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः।
अतप्ततनुर्न तदामोऽअश्नुते श्रृतास इद्वहंतस्तत्‌ समासते ।
कलशमा दूवो राख्ने-
ॐ  सहस्रपरमा देवी शतमूला शतांकुरा ।
सर्व हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥
कलशमा फल राख्ने
ॐ याः फलिनीर्य्याऽअफलाऽअपुष्पायाश्च पुष्पिणीः ।
बृहस्पतिप्प्रसूतास्तानोमुञ्चन्त्व ꣳ हसः ॥ 
सर्वौषधी राख्ने
 कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम्‌ ।
वचाकर्पूरमुस्ता च सर्वौषध्य: प्रकीर्तिताः ॥
ॐ  याऽओषधीःपूर्व्वाजातादेवेब्भ्यस्त्रियुगम्पुरा ।
मनैनुबब्भ्रूणा महᳩ शतन्धामानि सप्तच ॥ 
पञ्चरत्न राख्ने
(सून,हीरा,मोती,पुष्पराज,नीलम्‌ )
कनकं कुलिशं मुक्ता पद्मरागं च नीलकम्।
एतानि पञ्चरत्नानि सर्वकार्येषु योजयेत् ॥
ॐ परिवाजपतिः कविरग्निर्हव्व्यान्यक्क्रमीत्‌ ।
दधद्रत्क्नानिदाशुषे ॥ 
चन्दन राख्ने
ॐ  गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‌ ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्‌ ॥
सप्तमृत्तिका राख्ने
अश्वस्थानाद्‌ गजस्थानाद्रल्मीकात्सङ्गमाद्ह्रदात्‌ ।
राजद्वाराच्च गोष्ठाच्च मृदमानीय निक्षिपेत्‌ ॥
 
ॐ मृत्तिके प्रतिष्ठितं सर्वं तन्मे निर्णुद मृत्तिके ।
त्वयाहतेन पापेन गच्छामि परमां गतिम्‌ ॥
 
कलशको मुखमा पूर्णपात्रराख्ने
ॐ  पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
पूर्णपात्रमाथि श्रीफल ( नरिवल ) राख्ने –

ॐ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्व: ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्याऽअलक्ष्मीः ।

अब कलशमा वस्त्रवेष्टन गर्ने

ॐ  सुजातोज्ज्योतिषासहशर्म्मव्वरूथमासदत्स्वः ।
वासोऽअग्ने विस्वरूप ꣳ सम्व्ययस्वव्विभावसो ॥ 

 त्यसपछि प्रधानकलशको चारैदिशामा चार वेदको आवाहन गरी पूजा गर्ने

पूर्वमा ऋग्वेदको आवाहन गर्ने

ॐ  ऋग्वेदाय नमः ऋग्वेदं आवाहयामि स्थापयामि पूजयामि ।
ॐ  अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम्‌ । होतारं रत्नधातमम्‌ ॥

दक्षिणमा यजुर्वेदको आवाहनगर्ने
ॐ  यजुर्वेदाय नमः यजुर्वेदम्‌ आवाहयामि स्थापयामि पूजयामि ।
 
ॐ इषेत्वोर्ज्जेत्वा व्वायवस्थदेवोवः सविताप्प्रार्पयतुश्श्रेष्ठतमाय कर्म्मणऽआप्यायद्ध्वमध्न्याऽइन्द्रायभागं प्रजावतीरनमीवाऽअयक्ष्मा मावस्तेनऽईशतमाघस ꣳ सोद्ध्रुवाऽअस्मिन्गोपतौ स्यातबह्वीर्य्यज मानस्यपशून्पाहि । 
पश्चिममा सामवेदको आवाहन गर्ने
ॐ  सामवेदाय नमः सामवेदम्‌ आवाहयामि स्थापयामि पूजयामि
ॐ अग्नऽआयाहि वीतये गृणानो हव्य दातये । निहोता सत्सि वर्हिषि॥
उत्तरमा अथर्ववेदको आवाहन गर्ने
ॐ अथर्ववेदाय नमः अथर्ववेदं आवाहयामि स्थापयामि पूजयामि

ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये । शंग्योरभिस्रवन्तुनः ।

ॐ  चतुर्भ्यो वेदेभ्यो नमः सर्वोपचारान्‌ समर्पयामि ।

कलश प्रतिष्ठा गर्ने
ॐ  मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमन्तनोत्वरिष्टं

यज्ञ ꣳ समिमं दधातु । विश्वे देवासऽ5इहमादयन्तामाँ३ प्रतिष्ठ । 
एषवै प्रतिष्ठा नाम यज्ञो यत्रैतेन यज्ञेन यजन्तेसर्वमेव प्रतिष्ठितं भवति।

यसरी पहेँला अक्षताले कलश प्रतिष्ठा गरेर

प्रार्थना गर्ने
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्‌ ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ।

त्वयि तिष्ठन्ति सर्वेपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा ॥

अथ वरुणपूजनम्‌

त्यही पूजन गरेको कलशमा नै पहेला अक्षताले वरुणको आवाहनगरी पूजा गर्ने
ॐ इमं मे वरुणश्श्रुधीहवमद्याचमृडय । त्वामवस्युराचके ॥
ॐ  तत्त्वायामि ब्रह्मणाव्वन्दमानस्तदाशास्तेयजमानो हविर्ब्भिः  ।
अहेडमानोव्वरुणेहबोद्ध्युरुष ꣳ समानऽआयुः प्रमोषीः ॥
अस्मिन्‌कलशे साङ्गं सपरिवारं सशक्तिकं भगवद्पार्षदं वरुणम्‌ आवाहयामि स्थापयामि पूजयामि ॥
ॐ  मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमन्तनोत्वरिष्टं
यज्ञ ꣳ समिमं दधातु । विश्वे देवासऽ5इहमादयन्तामाँ३ प्रतिष्ठ । 

एषवै प्रतिष्ठा नाम यज्ञो यत्रैतेन यज्ञेन यजन्तेसर्वमेव प्रतिष्ठितं भवति।

 

 साङ्गाय सायुधाय सवाहनाय सपरिवाराय भगवद्पार्षदाय वरुणाय नमः ।
साङ्गं सायुधं सवाहनं सपरिवारं सशक्तिकं भगवदपार्षदं वरुणम्‌ प्रतिष्ठापयामि ।
आसनार्थे पुष्पं समर्पयामि  ॐ वरुणाय नमः ।
हस्तयो अर्घ्यं समर्पयामि ॐ वरुणाय नमः ।
 पादयो पाद्यं समर्पयामि ॐ वरुणाय नम: ।
 मुखे आचमनीयं समर्पयामि ॐ वरुणाय नमः ।
सर्वाङ्गे स्नानीयं समर्पयामि ॐ वरुणाय नमः ।
पञ्चामृतं समर्पयामि ॐ वरुणाय नमः ।
शुद्धोदकं समर्पयामि ॐ वरुणाय नमः ।
वस्त्रं समर्पयामि ॐ वरुणाय नमः ।
 यज्ञोपवीतं समर्पयामि ॐ वरुणाय नमः ।
उपवस्त्रं समर्पयामि ॐ वरुणाय नमः ।
 गन्धं समर्पयामि ॐ वरुणाय नमः ।
 अक्षतान्‌ समर्पयामि ॐ वरुणाय नमः ।
 पुष्पाणि समर्पयामि ॐ वरुणाय नम: ।
पुष्पमालां समर्पयामि ॐ वरुणाय नमः ।
सुगन्धितद्रव्यं समर्पयामि ॐ वरुणाय नमः ।
धूपं आघ्रापयामि  ॐ वरुणाय नमः ।
 दीपं सन्दर्शयामि ॐ वरुणाय नमः ।
नैवेद्यं निवेदयामि ॐ वरुणाय नमः ।
मध्ये मध्ये पानीयं जलं समर्पयामि ॐ वरुणाय नमः ।
आचमनीयजलं समर्पयामि ॐ वरुणाय नमः ।
ताम्बूलं समर्पयामि ॐ वरुणाय नमः ।
दक्षिणाद्रव्यं समर्पयामि ॐ वरुणाय नमः ।

अब वरुणको प्रार्थना गर्ने
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरुदेवेश प्रसन्नो भव सर्वदा ॥
नमो नमस्ते स्फटिकप्रभाय, सुश्वेतहाराय सुमङ्गलाय ।
सुपाशहस्ताय झषासनाय , जलाधिनाथाय नमो नमस्ते ॥
सर्वोपचारार्थे मन्त्रपुष्पाञ्जलिं समर्पयामि ।

अथ ब्राह्मणवरणम्‌

कर्ताले उर्ध्वपुण्डू धारण गरी पूर्वाभिमुख भएर सुपारी, फल, वस्त्र द्रव्य, आभूषण आदि वरणसामाग्रीहरुलिएर पश्चिमाभिमुख भएर उर्ध्वपुण्डू धारण गरी वसेका ब्राह्मणहरुलाई वरण गर्ने

संकल्प 
हरिः ॐ तत्सत्‌ ३ ॐ विष्णुर्विष्णुर्विष्णुः अद्य श्रीमद्भगवतो महापुरुषस्य श्रीविष्णोराज्ञया प्रवर्तमानस्य परार्धद्वयजीविनो ब्रह्मणो द्वितीयेपरार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीयेयामे तृतीयेमुहूर्ते अष्टमे श्रीशवेतवाराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथम चरणे श्रीमन्नृपतिविक्रमाकराज्याद्‌ , श्रीरामानुजमुनि प्रादुर्भावाद्वा अमुक….सम्वत्सरे वर्तमाने अमुक .. अयने अमुक… ऋतौ अमुक….. मासे अमुक…..पक्षे अमुक….. तिथौ अमुक…..नक्षत्रे अमुक… .योगे अमुक…………करणे अमुक………..राशिस्थिते चन्द्रे अमुक….. राशिस्थिते श्रीसूर्ये अमुक….राशिस्थिते देवगुरौ शेषेषु अन्येषु ग्रहेषु तत्तत्स्थान स्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ अमुक…गोत्रोत्पन्नः अमुक…नामाऽहं (अमुकशर्मा वर्मा गुप्तो दासोऽहं ) भगवत्कैङ्कर्यरूपेण भगवदाज्ञया भगवन्मुखोल्लासार्थम्‌ मम अमुककर्मणो निर्विध्न परिसमाप्त्यर्थं विष्वक्सेनादिपूजनपूर्वकं अमुककर्मणि कृताकृतावेक्षणरूपब्रह्मकर्मकर्तुम्‌ अमुकामुकगोत्रान्‌ अमुकामुकशर्मणो ब्राह्मणानेभिर्द्रव्यैः तत्तत्कर्मकरणार्थमहं वृणे ब्राह्मणाश्च वृतास्म इति ब्रूयु: ।
ब्राह्मणहरूले वृतास्मः भन्नु
 
अथ विष्वक्सेनपूजनम्‌
दुनामा चामल राखेर सातवटाकुशको कुर्चराखी त्यसकुर्चमा विष्वक्सेनको आवाहनगरी पूजागर्ने
विश्वकर्मन्नितिसूक्तस्य शासऋषि:त्रिष्टुप्छन्दोविश्वकर्मा विष्वक्सेनोदेवता विष्वक्सेनपूजने विनियोग: ।
ॐ व्विश्‍वकर्मन्हविषावावृधानःस्वयंयजस्वपृथिवीमुतद्याम्‌ ।
मुह्यन्त्वन्येऽअभितःसपत्कनाऽइहास्माकम्मघवासूरिरस्तु 
ॐ  वाचस्पतिं विश्वकर्माणमूतये मनोजुवंव्वाजेऽअद्याहुवेम ।
सनोविश्वानि हवनानि जोषद्विश्श्वशम्भूरवशे साधुकर्मा ॥ 
ॐ  विश्वकर्म्मन्हविषा वर्द्धनेनत्रातारमिन्द्रमकृणोरवद्ध्वम्‌ ।
तस्मै विशःसमनमन्तपूर्व्वीरयमुग्ग्रोव्विहव्योजथासत्‌ ॥ 
 
आवाहयामि सेनेशं सर्वविध्नविनाशकम्‌ ।
सूत्रवत्यासमेतञ्च ब्रह्माण्डपरिपालकम्‌ ॥
ॐ  सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः ।
ॐ सूत्रवती सहितं श्रीमन्तं विष्वक्सेनम्‌ आवाहयामि स्थापयामि पूजयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः हस्तयोरर्घ्यं समर्पयामि ।
ॐ  सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः पादयोः पाद्यं समर्पयामि
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः मुखे आचमनीयं समर्पयामि
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः सर्वाङ्गे स्नानीयं समर्पयामि
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः पञ्चामृतं  समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः शुद्धोदकं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः वस्त्रं समर्पयामि
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः यज्ञोपवीतं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः उपवस्त्रं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः गन्धं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः अक्षतान्‌ समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः पुष्पाणि समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः पुष्पमालां समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः सुगन्धितद्रव्यं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः धूपं आघ्रापयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः दीपं संदर्शयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नम: नैवेद्यं निवेदयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः आचमनीयं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः सफल ताम्बूलं समर्पयामि
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः दक्षिणाद्रव्यं समर्पयामि ।
ॐ सूत्रवतीसहिताय श्रीमते विष्वक्सेनाय नमः प्रदक्षिणां समर्पयामि ।
ॐ सूत्रबतीसहिताय श्रीमते विष्वक्सेनाय नमः मन्त्रपुष्पाञ्जलिं समर्पयामि
यसरी पूजन गरी प्रार्थना गर्ने
ॐ  विष्वक्सेनाय विद्महे वेत्रहस्ताय धीमहि तन्नोसेनेशः प्रचोदयात्‌
अब विष्ववसेनको आठै दिशामा वहाँका पार्षदहरुलाई आग्नेयादिक्रमले आवाहनगरी पूजन गर्ने-
ॐ गं गजाननाय नमः गजाननमावाहयामि स्थापयामि पूजयामि ।
ॐ  जं जयत्सेनाय नमः जयत्सेनमावाहयामि स्थापयामि पूजयामि ।
ॐ  हं हरिमुखाय नमः हरिमुखमावाहयामि स्थापयामि पूजयामि ।
ॐ  कं कालप्रकृतयेनमः कालप्रकृतिमावाहयामि स्थापयामि पूजयामि |
ॐ बं बलाय नमः बलमावाहयामि स्थापयामि पूजयामि ।
ॐ  प्रं प्रबलाय नमः प्रबलमावाहयामि स्थापयामि पूजयामि ।
ॐ  विं विनायकायनमःविनायकमावाहयामि स्थापयामि पूजयामि ।
ॐ विं विघ्नेशाय नमः विघ्नेशमावाहयामि स्थापयामि पूजयामि ।
ॐ  नमोगणेब्भ्योगणपतिब्भ्यश्चवोनमोनमोवातेभ्यो वातपतिब्भ्यश्चवोनमो नमो
गृत्सेभ्यो गृत्सपतिभ्यश्चवो नमो नमो व्विरूपेभ्यो व्विश्वरूपेभ्यश्श्व वो नमो नमः सेनाब्भ्यः ॥
यसरी मूलमन्त्रले आवाहनगरी अर्घ्यादि उपचारद्वारापूजनगरेर हातमा पुष्पलिएर प्रार्थना गर्ने
ॐ  विघातं विघ्नानां विदधति गजास्य प्रभृतयः
सदस्या गीर्वाण प्रवरप्रणुता यस्य शततम्‌।
रमाभर्तुः सेवा प्रणयनपरो यश्च सततं
स विष्वक्सेनो मे वितरतु मनोवाञ्छितप्रदः ॥
ॐ यस्य द्विरदवक्त्राद्या शासने स्थिरवृत्तयः।
स मे वैकुण्ठसेनानि भूयात्सर्वत्र विघ्नहा ॥
विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटा: ।
गजमुखजयत्सेनौ कालाह्वसिंहमुखौ च नः ॥
जगति भजतां तत्तत्प्रत्युहतूलदवानलाः
दिशिदिशि दिवारात्रं श्रीयज्ञपालनतत्पराः ॥

यसरी सपरिवार विष्वक्सेनको पूजागरेर साष्टाङ्ग प्रणामगरी

पुण्याहवाचन गर्ने

हेमाद्रि संभवं कुम्भं मन्त्राद्भिः क्षालितान्तरम्‌ ।
चन्दनागरु कर्पूर धूपितं शोभनाकृतिम्‌॥
आवेष्ठिताङ्गं नीरन्ध्रं तन्तुना त्रिगुणात्मना ।
अर्चितं गन्धपुष्पाद्यैः कूर्चासन समन्वितम्‌ 

नारिकेलयुतं पञ्चपल्लवैः समलंकृतम्‌ ।
नवरत्नोदकं मन्त्रीस्थापयेत्तारमुच्चरन्‌ ॥
आग्नयकोणमा एउटा कलश पुण्याहवाचनका लागि अलंकृतगरी राखेर चारजना ब्राह्मणहरुलाइ हातमाकुश दिएर आफ्ना अगाडी बसाएर पूजा गर्ने
यजमानले भन्ने – पुष्पाणि पान्तु
ब्राह्मणले उच्चारण गर्ने  सौमनस्यमस्तु ।
यजमानले- अक्षतापान्तु ।
ब्राह्मणले – अरिष्टमक्षतं चास्तु ।
यजमानले-गन्धाः पान्तु।
ब्राह्मणले-सौमङ्गल्यमस्तु ।
यजमानले- सफलताम्बूलानि पान्तु ।
ब्राह्मणले- ऐश्वर्यमस्तु
यजमानले- दक्षिणा पान्तु ।
ब्राह्मणले – बहुदेयञ्चास्तु ।
यजमानले – भवद्धिरनुज्ञातः पुण्याहं वाचयिष्ये ।
ब्राह्मणले –  वाच्यताम्‌  वाच्यताम्‌  वाच्यताम्‌  ।
हातमा कर्मपात्रको जल लिएर पहिले जस्तै देश काल आदि सङ्कीर्तन गरी
ॐ भगवदाज्ञया भगवत्प्रीत्यर्थं यागोपकरण गृह शरीरादिशुद्धयर्थ पुण्याहवाचनमहङ्करिष्ये (करिष्यामि) ।
यसरी सङ्कल्प गरी भूमीमा घुँडाटेकी हात जोडेर प्रार्थना गर्ने-
यजमानले उच्चारण गर्ने-
व्रत-जप-तपः-स्वाध्याय-क्रतु-दया-दान-दम-नियम-सम्पन्नानां तत्र भवताम्‌ ब्राह्मणानाम्‌ मनः समाधीयताम्‌ ।
ब्राह्मणले – समाहितमनसाःस्मः
यजमानले – प्रसीदन्तु भवन्तः
ब्राह्मणले- प्रसन्नाःस्मः ।
यजमानले – भवद्भिरनुज्ञातः पुण्याहवाचनङ्करिष्ये
ब्राह्मणले- वाच्यताम्‌  वाच्यताम्‌ वाच्यताम्‌  ।
त्यसपछि घडालाई वायाँ हातमा राखी दायाँ हातले छोपेर प्रार्थना गर्ने-
यजमानले – भो ब्राह्मणा: ! अस्य मम गृहे अमुक कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ३ ।
ब्राह्मणले भन्ने – ॐ  पुण्याहमस्तुपुण्याहमस्तुपुण्याहमस्तु ।
ॐ  पुनस्त्वादित्या रुद्रः वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथयज्ञै: ।
घृतेन त्वं तन्वं वर्धयस्व यजमानस्य कामा: ॥ 

यजमानले – भो ब्राह्मणाः अस्य अमुक कर्मणः स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मणले भन्ने-  ॐ  स्वस्तिरस्तु ॐ  स्वस्तिरस्तु ॐ  स्वस्तिरस्तु ।
ॐ स्वस्तिनऽइन्द्रोव्वृद्धश्रवाः स्वस्तिनःपूषाव्विश्ववेदाः ।
स्वस्तिनस्तारक्ष्योऽअरिष्टनेमिः स्वस्तिनो बृहस्पितिर्दधातु ।
यजमानले – भो ब्राह्मणाः अस्य अमुक कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मणलेभन्ने – ॐ ऋद्धिरस्तु  ॐ ऋद्धिरस्तु  ॐ ऋद्धिरस्तु 
 ॐ  ऋध्यामस्तोमं सनुयाम वाजमानो मन्त्रं सरथे होपयातम्‌ ।
यशोनपक्वम्मधुगोष्वन्तरा भूतांशोऽअश्विनो कामप्राः ॥
अब सवै ब्राह्मणले उच्चारणगर्ने-

ॐ शान्तिरस्तु ॐ  पुष्टिरस्तु ॐ  तुष्टिरस्तु ॐ  ऋद्धिरस्तु ॐ  अविघ्नमस्तु ॐ  आयुष्यमस्तु ३ आरोग्यमस्तु ॐ  धनधान्यसमृद्धिरस्तु ॐ गोब्राह्मणेभ्यः  शुभमस्तु ॐ सर्वशोभनमस्तु ॐ सर्वासम्पदः सन्तु ॐ  शुभानि वर्धन्ताम्‌ ॐ  शान्तिः । ॐ  शान्तिः । ॐ  शान्तिः ।

अब यजमानका हातमा अथवा भूमीमा राखिएको पुण्याहकलशलाई ब्राह्मणहरुले आफ्नाहातमा भएको कूशको अग्रभागले स्पर्शगरेर तलका मन्त्र उच्चारण गरी अभिमन्त्रण गर्ने-

पहिला वरुणसूक्त एवं पवमानसूक्तले अभिमन्त्रण गरी पाञ्चरात्रागमका मन्त्रहरुद्वारा अभिमन्त्रण गर्ने
वरुणसूक्तम्‌
ॐ  हिरण्यवर्णाः शुचयः पावकायासुजातः सवितायास्वग्निः ।
याऽअग्निं गर्भ दधिरे सुवर्णास्तान आपः श ᳩ स्योना भवन्तु ॥
ॐ  यासा ᳩ राजावरुणोयातिमध्ये सत्यानृतेऽअवपश्यञ्जनानाम्‌ ।
याऽअग्निं गर्भ दधिरे सुवर्णास्तान आपःशᳩ स्योना भवन्तु ॥
ॐ  यासां देवा दिवि कृण्वन्ति भक्षं याऽअन्तरिक्षे बहुधा भवन्ति।
याऽअग्निं गर्भ दधिरे सुवर्णास्तानऽआपः शᳩ स्योना भवन्तु ॥
ॐ  शिवेन मा चक्षुषापश्यतापःशिवयातन्वोपस्पृश तत्वञ्चमे ।
 घृतश्चुतः शुचयो याः पावकास्तान आपः श ᳩ स्योना भवन्तु ॥
ॐ  आपोहिष्ठामयोभुवस्तानऽऊर्जे दधातन महेरणायचक्षसे ॥
ॐ  योवः शिवतमोरसस्तस्यभाजयतेहनः । उशतीरिवमातरः ॥
ॐ तस्माऽअरङ्गमामवोयस्यक्षयाजिन्वथ । आपोजनयथाचनः ॥
ॐ  चित्पतिर्म्मापुनातुव्वाक्पतिर्मापुनातु देवोमासविता
पुनात्त्वच्छिद्रेणपवित्रेणसूर्यस्यरश्मिभिः ।
तस्यतेपवित्रपते पवित्रपूतस्य यत्काम:पुनेतच्छकेयम्‌ ॥
पवमानसूक्तम्‌
ॐ  पवमानस्सुवर्जनःपवित्रेण विचर्षणिः ।
यः पोतास पुनातु माम्‌ ॥
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
विश्वेदेवाः पुनीत मा जातवेदः पुनीहि माम्‌ ।
पावमानीः स्वस्त्ययनीः सुदुघाहि घृतश्च्युतः ।
 ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतं हितम्‌ ॥
पावमानिर्दिशन्तुन इमं लोक अथो अमुम्‌ ।
कामान्त्समर्धयन्तु नो देवीर्देवैः समाहिता ॥
येन देवाः पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु माम्‌॥
प्राजापत्यं पवित्रं शतोद्याम ꣳ हिरण्मयम्‌ ।
तेन बह्विदो वयं पूतं ब्रह्म पुनीहि मे ॥
इन्द्र: पुनीतिः सहमा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
यमो राजा प्रमृणाभिः पुनातु मा जातवेदामूर्जयन्त्या पुनातु ॥
यन्मे गर्भ वसतःपापमुग्रै यज्जायमानस्य च किञ्चिदन्यत्‌ ।
जातस्य यश्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि ॥
ब्रह्म बधात्‌ सुरापानात्‌ स्वर्णस्त्येयाद्‌ वृषलीमैथुनसङ्गमात्‌ ।
गुरो दाराऽधिगमाच्च तत्पावमानीभिरहं पुनामि ॥
दुर्यष्टं दुरधीतं पापं यच्चाज्ञानकृतोऽकृतम्‌ ।
अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहं पुनामि ॥
पावमानी:स्वस्त्ययनीर्याभिर्गच्छन्ति नान्दनम्‌।
पुण्यांश्च भक्ष्यान्भक्षयत्यमृतत्वञ्च गच्छति ॥
पावमानी: पितृन्देवान्ध्यायेद्य॒श्च सरस्वतीम्‌ ।
पितृंस्तस्योपवर्तेत क्षीरं सर्पिमधूदकम्‌॥
पावमानं परं ब्रह्म शुक्रञ्ज्योतिः सनातनम्‌ ।
ऋषींस्तस्योपतिष्ठेत क्षीरं सर्पिमधूदकम्‌॥
पावमानं परं ब्रह्म ये पठन्ति मनीषिणः ।
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥
पाञ्चरात्रागममन्त्राः
ॐ  दर्भैस्पृशन्तु कलशं ब्राह्मणैः सह देशिकः ।
ततश्च शुद्भिमन्त्राँस्तु पठेदेवं समाहितः ॥१॥
शुद्धयेस्तु परो देवो वासुदेवोऽस्तु शुद्धये ।
सङ्कर्षणःशुद्धयेऽस्तु प्र्यम्नश्चास्तु शुद्धये ॥२॥
शुद्धयेऽस्त्वनिरुद्धोऽपि केशवश्चास्तु शुद्धये ।
नारायणोऽस्तु विश्वेश शुद्धये सर्वकर्मणाम्‌ ॥३॥
शुद्धये माधवश्चास्तु सर्वलोकहितेरतः ।
गोविन्दः शुद्धयेचास्तु परमात्मा सनातनः ॥४॥
शुद्धये विष्णुरस्त्वाद्य शुद्धये मधुसूदनः ।
सर्वलोकहितो देवः शुद्धयेऽस्तु त्रिविक्रमः ॥५॥
वामनःशुद्धयेचास्तु श्रीधरोऽद्यास्तु शुद्धये ।
शुद्धयेऽस्तु हृषीकेश: पद्मनाभोऽस्तु शुद्धये ॥६॥
सदा दामोदरो देवः शुद्धयेऽस्तु जगत्पतिः ।
शुद्धये पद्मनाभोऽस्तु शुद्धयेऽस्तु सदा ध्रुवः ॥६॥
अनन्तः शुद्धये चास्तु शक्त्यात्मा चास्तु शुद्धये ।
सर्वकर्मसु चैवास्तु शुद्धये मधुसूदनः ॥७॥
सदा विद्याधिदेवोऽस्तु शुद्धये कपिलस्तथा ।
शुद्धये विश्वरूपोऽस्तु शुद्धयेऽस्तु विहङ्गमः ॥८॥
क्रोडात्मा शुद्धयेचास्तु शुद्धये वडवानलः ।
शुद्धयेऽस्तु सदा धर्मश्चास्तु वागीश्वरस्तथा ॥९॥
देव एकार्णवशयःशुद्धयेऽस्तु निरन्तरम्‌ ।
शुद्धयेऽस्तु सदा देवःकूर्मःपातालधारकः ॥
वाराहः शुद्धयेचास्तु नारसिंहोऽस्तु शुद्धये ।
अमृताहरणश्चास्तु शुद्धये सर्वकर्मणाम्‌ ॥११॥
श्रीपतिःशुद्धये चास्तु शान्तात्मा चास्तु शुद्धये ।
शुद्धये राहुजिच्चास्तु कालनेमिघ्न एव च ॥१२॥
पारिजातहरश्चास्तु वामनश्चास्तु शुद्धये ।
सर्वत्र शुद्धयेचास्तु दत्तात्रेयो महाप्रभुः ॥१३॥
न्यग्रोधशायी भगवान्‌ शुद्धये चास्तु सर्वदा ।
एकश्रृङ्गतनुश्चास्तु वामनश्चास्तु शुद्धये ॥१४॥
त्रिविक्रमः शुद्धयेऽस्तु शुद्धयेस्तु नरस्सदा ।
नारायणःशुद्धयेऽस्तु हरिःकृष्णश्च शुद्धये ॥१५॥
ज्वलत्परशुधृग्रामःशुद्धयेऽस्तु धनुर्धरः ।
रामश्च शुद्धये चास्तु वेदविद्भगवाँस्तथा ॥१६॥
शुद्धयेऽस्तु सदा कल्को सर्वदोषक्षयङ्करः ।
शुद्धयेऽस्तु सदादेवः पातालशयनः प्रभुः ॥१७ ॥
शुद्धये सन्तु सर्वेषां सर्वे सर्वत्र सर्वदा ।
एते सर्वे सदा देवाः शान्तये सन्तु पूजिताः ॥१८॥
ऋद्धये पुष्टये सन्तु सिद्धये भक्तयेऽपि च।
शिवाय मुक्तये सन्तु वृद्धये सर्वकर्मणाम्‌ ॥१९॥
मन्त्राणां देशिकानाञ्च स्थानानामपि सर्वदा ।
पुत्रमित्रकलत्राणां दासीदासगवामपि ॥२०॥
दशास्त्रागमादीनां व्रतानामिष्टसम्पदाम्‌ ।
मनोरथानां सर्वेषां हितानां सन्तु सर्वदा ॥२१॥
आयुरारोग्यमेधानां धनधान्यादिसम्पदाम्‌ ।
पुण्यानामणिमादीनां गुणानां श्रेयसामपि ॥ २२ ॥
राज्ञो जनपदस्यापि यजमानस्य मन्त्रिणाम्‌ ।
वैष्णवानां विशेषेण परत्र हितमिच्छताम्‌ ॥२३॥
पञ्चकालविशुद्धानां सत्वस्थानां शुभात्मनाम्‌ ।
स्वस्त्यस्तु च शिवञ्चास्तु शुभंचास्तु पुनः पुनः ॥२४॥
अविघ्नमनिशञ्चास्तु दीर्घमायुष्यमस्तु वै ।
समाहित मनश्चास्तु सम्पदश्चोत्तरोत्तरम्‌ ॥२५॥
पुण्याहं शुद्धयेचास्तु वासुदेवादि मूर्तय: ।
शङ्घचक्रगदापद्ययुक्तः सर्वेश्वरेश्वरः ॥२६ ॥
प्रीयतां भगवान्देवो लाङ्कली प्रीयतां सदा ।
प्रद्युम्न प्रीयतां नित्यमनिरुद्धः सुरेश्वरः ॥२७॥
नारायणःसुरेशोऽपि कर्मणां पूरणाय च ।
न्यूनाधिकानां शान्त्यर्थं प्रीयतां प्रीयतां विभुः ॥२८॥
पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सहितो द्विजैः ।
आत्मानं प्रोक्षयेत्‌ पश्चाद्यागोपकरणानि च ॥२९॥
येन देवाःपवित्रेणेत्यादि मन्त्रान्पठन्गुरुः ।
एवं सर्वेषु यागेषु कुर्यात्पुण्याहवाचनम्‌ ॥३०॥
यसरी पुण्याहवाचन गरेर त्यही जलले आम्रपल्लव र कूशको कूर्चले तलको वास्तुसूक्त उच्चारणगर्दै आफू र यज्ञमण्डप एवं घरभित्र बाहिर चारैतिर घण्टा बजाउदै संप्रोक्षण गर्ने
ॐ येन देवाः पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु माम्‌ ॥ 
अथ वास्तुसूक्तम्‌
ॐ  वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशोऽअनमीवो भवान: ।
यत्त्वेमहे प्रतितन्नोजुषस्व शन्नोभव द्विपदे संचतुष्पदे ॥
 
ॐ वास्तोष्पते प्रतरणोनऽएधि गयस्फानो गोभिरश्वेभिरिन्दो ।
अजरासस्ते सख्येस्याम पितेव पुत्रान्प्रतितन्नोजुषस्व ॥
 
ॐ  वास्तोष्पते शग्मया संसदाते सक्षीमहिरण्मया गातु मत्या ।
पाहि क्षेमऽउतयोगेवरन्नो यूयं पात स्वस्तिभिः सदानः ॥
 
ॐ  अमीवहावास्तोष्पते विश्वारूपाण्याविशन्‌ ।
सखा सुसेवऽएधिनःशन्नो भव द्विपदे शञ्चतुष्पदे ॥

अब भगवदाराधना गर्ने 

अग्निसंस्कार

अथ अग्निकुण्डकृत्यम्‌

अब  समिधा शोधन ( सफा ) गर्ने ।
ॐ  कस्त्वासत्योमदानाम्म  ᳩ हिष्ट्ठो मत्सदन्धसः ।
दृढाचिदारुजे व्वसु ॥
 कुण्ड अथवा वेदीमा समिधा राख्ने
 पञ्चत्रीणि तथा त्रीणि पुनःपञ्च विधानतः ॥
ॐ  त्वामिद्धिहवामहेसातौव्वाजस्यकारवः ।
त्वांवृत्रेष्विन्द्रसत्पतिन्नरस्त्वाङ्काष्ठास्वर्व्वत: ॥ 
यथा संभव धूवाँले रहित भएको अग्नि तामा आदि पात्रहरुमा लिएर आउनु
ॐ  येनऽऋषयस्तपसासत्रमायान्निन्धानाऽअग्निᳩ स्वराभरन्तः ।
तस्मिन्नहन्निदधे नाकेऽअग्नि ᳩ यमाहुर्म्मनवस्तीर्णबर्हिषम्‌ ॥
त्वं मुखं सर्वदेवानां सप्तार्चिरमितद्युते ॥
आगच्छ भगवन्नग्ने यज्ञेस्मिन्सन्निधो भव ।
अब अग्निंशोधनगर्ने (जलाउने)

ॐ अग्नावग्निश्चरतिप्प्रविष्टऽऋषीणाम्पुत्रोऽअभिशस्तिपावा ।
सनःस्योनःसुयजायजेह देवेब्भ्योहव्व्य ꣳ सदमप्प्रयुच्छन्त्स्वाहा ॥

अब अग्निकोपात्र हातमा लिने
ॐ  मयि गृह्णाम्यग्ग्नेऽअग्नि ꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।
मामुदेवताःसचन्ताम्‌ ॥

अब अग्निलाई पहेला अक्षता अर्पणगरी वैष्णव वनाएको स्मरण गर्ने

ॐ एषोहदेवः प्रदिशोनुसर्व्वाः पूर्व्वोहजातः सऽउगर्ब्भेऽअन्तः ।
सऽएव जातःसजनिष्यमाण:प्रत्यङ्जनांस्तिष्ठति सर्व्वतोमुखः ॥

यस मन्त्रले अग्निका मध्यमा ऋतुस्नानगरेकी लक्ष्मीका साथमा भगवानको संयोग भइ गर्भवती भएकी लक्ष्मीको ध्यानगरी लक्ष्मीवाट अग्निको उत्पत्तिभएको भावना गरी अग्निलाइ वैष्णवबनाइएको स्मरणगर्ने –

यसपछि एउटापात्रमाराखेको अग्निलाइ अर्कोपात्रले छोपेर अग्निको सोह्रसंस्कारगर्ने-

अथ अग्नेः षोडशसंस्काराः

 

यो मन्त्र उच्चारण गरी पहेला अक्षताले पूजागर्दै तल भएका मन्त्रहरु पाठ गर्ने, यसरी सबैठाउँमा पूजा गर्ने ।

१. ॐ हं अग्नये शुचिषदे नमः स्वाहा । अग्नेर्गर्भाधानसंस्कारं सम्पादयामि ।

ॐ गर्भोऽअस्योषधीनाङ्गर्भोव्वनस्पतीनाम् ।
गर्भोविश्वस्य भूतस्याग्नेगर्भोऽअपामसि । 

२. ॐ हे अग्नये शुचिषदे नमः स्वाहा। पुंसवन संस्कारं सम्पादयामि ।

ॐ व्विवस्वन्नादित्यैषतेसोमपीथस्तस्मिन्मत्स्व ।
श्रदस्मै नरोव्वचसेदधातनयदाशीर्द्दाम्पतीव्वाममश्नुतः
पुमान्पुत्रो जायतेव्विन्दतेव्वस्वधाव्विस्वाहारपऽएधते गृहे ।

३. ॐ हं अग्नये शुचिषदे नमः स्वाहा सीमन्तोनयनसंस्कारं सम्पादयामि ।
ॐ अजीजनोहि पवमानसूर्यम्व्विधारेशक्मनापयः । गोजीरयार ꣳ हमाणः पुरन्ध्या ॥
४. ॐ हं अग्नये शुचिषदे नमः स्वाहा जातकर्मसंस्कारं सम्पादयामि ।
ॐ एजतुदशमास्योगर्भो जरायुणा सह ।
यथायंव्वायुरेजतियथासमुद्रऽएजति ।

 एवायन्दशमास्योऽअजस्रज्जरायुणासह ॥

अब कुण्डमा अग्नि राख्ने

ॐ अग्निर्म्मूर्द्धादिवः ककुत्पत्तिः पृथिव्याऽअयम् ।
अपाᳩ रेता ᳩ सिजिन्वति ॥ 
 
ॐ स्थिरोभवव्वीङ्वङ्गऽआशुर्भवव्वाज्ज्यर्वन् ।
पृथुर्भवसुखदस्त्वमग्नेः पुरीषवाहणः ॥
५. ॐ हं अग्नये शुचिषदे नमः स्वाहा नामकरण संस्कारं सम्पादयामि ।
ॐ यदापिपेषमातरम्पुत्रः प्रमुदितोधयन् ।
एतत्तदग्नेऽअनृणो भवाम्यहतौ पितरौ मया ।

 सम्पृचस्थसम्माभद्रेणपृङ्क्तव्विपृचस्थ व्विमापाप्मना पृङ्क्त ॥ 

६. ॐ हं अग्नये शुचिषदे नमः स्वाहा निष्क्रमणसंस्कारं सम्पादयामि ।

ॐ पूषापञ्चाक्षरेण पञ्चदिशऽउदजयत्ताऽउज्जेष ꣳ सविताषडक्षरेणषडृतूनुदजयत्तानुज्जेषम्मरुतः सप्ताक्षरेण सप्तग्ग्राम्यान्न्पशूनुदजयँस्तानुज्जेषम्बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत्तामुज्जेषम्मित्रो नवाक्षरेण 

 

७. ॐ हं अग्नये शुचिषदे नमः स्वाहा अन्नप्राशनसंस्कारं सम्पादयामि ।

ॐ अन्नपतेन्नस्यनोदेह्यनमीवस्यशुष्मिणः ।
प्रप्प्रदातारन्तारिषऽऊर्ज्जन्नोधेहिद्विपदेचतुष्पदे ।

८. ॐ हं अग्नये शुचिषदे नमः स्वाहा चूडाकरणसंस्कारं सम्पादयामि।
ॐ अग्नआयाहि वीतये गृणानो हव्य दातये । निहोता सत्सि वर्हिषि ॥
९. ॐ हं अग्नये शुचिषदे नमः स्वाहा कर्णवेधसंस्कारं सम्पादयामि ।

भद्रङ्कर्णेभिः श्रृणुयामदेवाभद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा ᳩ सस्तनूभिर्व्यशेमहिदेवहितं यदायुः ॥

१०. ॐ हं अग्नये शुचिषदे नमः स्वाहा उपनयनसंस्कारं सम्पादयामि ।

ॐ अग्निरेकाक्षरेणप्प्राणमुदजयत्तामुज्जेषमश्विनौद्व्यक्षरेणद्विपदोमनुष्यानुदजयतान्तानुज्जेषंविष्णुस्त्र्यक्षरेणत्रीँल्लोकानु दजयत्तानुज्जेष ꣳ सोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत्तानुज्जेषम्पूषापञ्चाक्षरेण ॥

११. ॐ हं अग्नये शुचिषदे नमः स्वाहा सावित्रीश्रावणसंस्कारं सम्पादयामि ।

ॐ वैश्वानराय विद्महे सप्तजिह्वाय धीमहि तन्नोऽअग्निः प्रचोदयात् 

१२. ॐ हं अग्नयेशुचिषदे नमः स्वाहा वेदारम्भसंस्कारं सम्पादयामि ।

ॐ वेदोसियेनत्वन्देवव्वेददेवेब्भ्योव्वेदोभवस्तेनमह्यंव्वेदोभूयाः ।
देवागातुविदोगातुंव्वित्वागातुमित । मनसस्पतऽइमन्देवयज्ञᳩ स्वाहाव्वातेधाः ॥ 

१३. ॐ हं अग्नये शुचिषदे नमः स्वाहा समावर्तनसंस्कारं सम्पादयामि।

ॐ व्रतङ्कृणुतव्व्रतङ्कृणुताग्निर्ब्रह्माग्निर्य्यज्ञोव्वनस्पतिर्य्यज्ञियः । दैवीन्धियम्मनामहेसुमृडीकामभिष्टयेव्वर्चोधांयज्ञवाहस ꣳ सुतीर्थानोऽअसद्वशे ।
ये देवामनोजातामनोयुजो दक्षक्रतवस्तेनो वन्तु तेनःपान्तुतेब्भ्यःस्वाहा 

१४. ॐ हं अग्नये शुचिषदे नमः स्वाहा गोदानसंस्कारं सम्पादयामि ।

ॐ गावऽउपावतावतम्महीषज्ञस्यरप्सुदा । उभाकर्णाहिरण्ण्यया ।

१५. ॐ हं अग्नयेशुचिषदे नमः स्वाहा स्नातकव्रतसंस्कारं संपादयामि ।

ॐ अग्नेव्व्रतपतेव्व्रतमचारिषन्तदशकन्तन्न्मेराधीदमहंयऽएवास्मिसोस्मि ॥ 

१७. ॐ हं अग्नये शुचिषदे नमः स्वाहा विवाहसंस्कारं सम्पादयामि ।

ॐ भगऽएवभगवाँ२ऽअस्तुदेवास्तेनव्वयम्भगवन्तः स्याम ।
तन्त्वा भगसर्व्वऽइज्जोहवीतिसनो भगपुरऽएताभवेह ॥ 

 ॐ हं अग्नये शुचिषदे नमः स्वाहा अवशिष्टसंस्कारं सम्पादयामि ।
ॐ अग्निदूतं पुरोदधे हव्यवाहमुपब्रुवे । देवाँ२ऽआसादयादिह ॥

१९. ॐ हं अग्नये शुचिषदे नमः स्वाहा अग्नेः षोडशसंस्कारपूर्तिरस्तु ।

अब चन्दनपुष्प अक्षता लिएर हातजोडेर प्रार्थना गर्ने-

ॐ ऋतावानंव्वैश्वानरमृतस्यज्ज्योतिषस्पतिम् । अजस्रङ्घर्ममीमहे । उपयामगृहीतोसिव्वैश्वानरायत्वैषतेयोनिर्वैश्वानरायत्वा ।
ॐ व्वैश्श्वानरस्यसुमतौस्यामराजाहि कम्भुवनानामभिश्श्रीः ।
इतो जातो विश्वमिदंव्विचष्टेव्वैश्वानरोयततेसूर्येण ।
उपयामगृहीतोसिव्वैश्वानरायत्वैषतेयोनिर्व्वैश्वानरायत्वा ॥
ॐ व्वैश्वानरोनऽऊतयऽआप्प्रयातुपरावतः ।
अग्निरुक्थेनव्वाहसा ।
उपयामगृहीतोसिव्वैश्वानरायत्वैषतेयोनिर्वैश्वानरायत्वा ॥
ॐ आवाहये त्वां पुरुषं महान्तं सुरासुरैर्वन्दितपादपद्मम् ।
ब्रह्मादयो यस्य मुखे वसन्ति, प्रविश्य कुण्डे सुरलोकनाथ ॥
अथ अष्टवसुपूजनम्
आठ ओटा दुना अथवा तपरिमा चामलराखेर त्यस्मा कुशको कूर्च राखी पूर्वादिक्रमले अष्टवसुको आवाहनगरी पूजन गर्ने
ॐ अग्नये नमः अग्निम् आवाहयामि स्थापयामि पूजयामि ।
ॐ जातवेदसे नमः जातवेसम् आवाहयामि स्थापयामि पूजयामि ।
ॐ सहोजसे नमः सहोजसम् आवाहयामि स्थापयामि पूजयामि ।
ॐ अजिराप्रभवे नमः अजिराप्रभुम् आवाहयामि स्थापयामि पूजयामि ।
ॐ वैश्वानराय नमः वैश्वानरम् आवाहयामि स्थापयामि पूजयामि ।
ॐ नर्यापसे नमः नर्यापसम् आवाहयामि स्थापयामि पूजयामि ।
ॐ पंक्तिराधसे नमः पंक्तिराधसम् आवाहयामि स्थापयामि पूजयामि ।

ॐ विसर्पिणे नमःविसर्पिणम् आवाहयामि स्थापयामि पूजयामि ।

ॐ सुगावोदेवाः सदनाऽअकर्म्मयऽआजग्मेद ꣳ सवनञ्जुषाणाः ।
भरमाणाव्वहमानाहवीꣳ ष्यग्मेधत्तव्वसवोव्वसूनि स्वाहा ॥

ॐ यज्ञपुरुषाय नमः यज्ञपुरुषमावाहयामि स्थापयामि पूजयामि ॥

यसरी कुण्डको चारैतिर पूजा गर्ने

ॐ आत्मने नमः आफ्ना शिरमापनि पुष्प अक्षता राख्ने-
ॐ सर्वेभ्यः श्रीवैष्णवेभ्यो नमः
अब सवै श्रीवैष्णवकाशिरमापनि पीताक्षताले पूजागर्ने
अथ ब्रह्मपूजनम्
अग्निको दक्षिणपट्टि मण्डलमाथि सातकुशवाटनिर्मितभएको कूर्चमा सशक्तिक ब्रह्माजीलाइ आवाहनगरी पूजन गर्ने
ॐ आब्ब्रह्मन्न्ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रेराजन्यः शूरऽइषळ्योतिव्याधीमहारथोजायतान्दोग्ग्ध्रीधेनुर्ध्वोढानड्वानाशुःसप्तिः
पुरन्धिर्योषाजिष्णूरथेष्ठाः सभेयो युवास्य यजमानस्य व्वीरो जायता न्निकामेनिकामे नः पर्जन्योव्वर्षतु फलवत्योनऽओषधयः पच्च्यन्तां योगक्षेमो नः कल्प्पताम् ॥
अथ ब्रह्मावाहनम्
अब ब्रह्मालाई आवाहन गर्ने 
ॐ ब्रह्मजज्ञानं प्रथमम्पुरस्ताद्विसीमतः सुरुचोव्वेनऽआवः ।
सबुध्न्याऽउपमाऽअस्यविष्ठाः सतश्चषोनिमसतश्चविवः ॥
आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ।
जगतोऽस्य समुपत्तिस्थितिसंहारकारणम् ॥
आगच्छ भगवन् ब्रह्मन् यजमानसमृद्धये ।
गन्धपुष्पादिभिः पूजां गृहाण जगदीश्वर ॥
ॐ ब्रह्मणे नमः ॥
अब अर्घ्यादि षोडशोपचारले पुजन गरी साष्टाङ्ग प्रणाम गर्ने  ।
अथासनविधानम्
 
होताको आसन यथासम्वभ कुशको हुनु राम्रो
ॐ यस्य कुर्मो गृहेहविस्तमग्नेव्वर्द्धयात्वम्।
तस्मै देवाऽअधिब्रुवन्नयञ्च ब्रह्मणस्पतिः । 
अग्निको दक्षिण पट्टी ब्रह्माको समीपमा यजमानको आसनराख्ने
ॐ अग्ने प्रेहिप्प्रथमोदेवयताञ्चक्षुर्देवानामुतमर्त्यानाम् ।
इयक्षमाणा भृगुभिः सजोषाः स्वर्य्यन्तुयजमानाः स्वस्ति ॥

तलको मन्त्र पढ्दै अग्निको उत्तरतिर प्रणीताको आसनका निमित्त पूर्वतर्फ टुप्पा वनाई तीनवटाकुशको आसन राख्ने र प्रणीता र अग्निको बीचमा प्रोक्षणीपात्रकालागि पनि तीनओटा  कुशको आसन राखिदिने

ॐ परीत्यभूतानि परीत्यलोकान्परीत्यसर्व्वाः प्रदिशो दिशश्च ।
उपस्त्थाय प्प्रथमजामृस्तस्यात्क्मनात्मानमभिसंव्विवेश ॥ 

 

अथ प्रोक्षणीप्रणी
त्यसपछि बाह्र अंगुल लम्बाइ चार अंगुल फराकिलो चार अंगुल गहिरो भएको प्रणीतापात्रलाई वायाँहातमा लिएर तलको मन्त्र उच्चारण गर्ने

ॐ इन्द्रऽआसान्नेताबृहस्पतिर्द्दक्षिणायज्ञः पुरऽएतुसोमः ।
देवसेनानामभिभञ्जतीनाञ्जयन्तीनाम्मरुतोयन्त्वग्रम् ।

अब दाहिने हातले प्रणीतापात्रमा जलभर्दै तलकोमन्त्र पढ्ने

ॐ उदुत्तमंव्वरुणपाशमस्मदवाधमंब्विमध्यम ᳩ श्रथाय ।
अथाव्वयमादित्यव्रतेतवानागसोऽअदितये स्याम ॥ 

अब दाहिने हातको अनामिकाले ( कान्छी औलाको छेउको औला ) प्रणीताको पात्रको जललाई स्पर्शगर्ने

ॐ तत्त्वायामि ब्रह्मणाव्वन्दमानस्तदाशास्तेय्यजमानो हविर्भिः ।
अहेडमानोव्वरुणेहबोद्ध्युरुष ꣳ समानऽआयुः प्रमोषीः ॥ 

यसपछि ब्रह्माको मुखलाई अवलोकनगरी प्रणीतापात्र उत्तरतिरको आसनमा स्थापनागर्नु
ॐ त्र्यम्बकंयजामहे सुगन्धिम्पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्॥
त्र्यम्बकंस्यजामहे सुगन्धिम्पतिवेदनम् ।
उर्व्वारुकमिव बन्धनादितोमुक्षीयमामुतः ॥
दुइवटापवित्र बनाउने

ॐ पवित्रेस्थोव्वैष्णळ्यौसवितुर्व्वःप्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः । देवीरापोऽअग्रेगुवोऽअग्रेपुवोग्रऽइममद्ययज्ञन्नयताग्रेयज्ञपति ꣳ  सुधातुंयज्ञपतिन्देवयुवम् ॥ 

जलसंस्कारः
अब सबै पात्रहरु उत्तानोबनाएर बाह्र अंगुल लम्बाई भएको हत्केला बराबर गहिरो कमलपुष्पको आकृती भएको उत्तानो पारिएको प्रोक्षणी पात्रमा जल राख्ने
ॐ इमं मे वरुणश्श्रुधीहवमद्याचमृडय । त्वामवस्युराचके ॥
 अब  दुई ओटा कूशको दुई पवित्र बनाएर जलले प्रोक्षणगरी प्रोक्षणीपात्रमा राख्ने
ॐ देवस्यत्वा सवितुः प्रसवेश्श्विनोर्बाहुब्भ्यांपूष्ष्णो हस्ताभ्याम् ।
अग्नयेजुष्टम्गृह्णाम्म्यग्नीषोमाब्भ्याञ्जुष्टंगृह्णामि ।
त्यसपछि त्यहाँ पीताक्षता राख्ने र भित्र पवित्र राखिएको प्रोक्षणी पात्रमा जलराखेर अग्निको दक्षिणतिरवाट ल्याउने र  आफ्ना अगाडी राखी दाहिने हातको अंगुष्ठ र कनिष्ठिका औंलाले दुइटै पवित्र लिएर पूर्वपट्टी तीनपटक
प्रोक्षण गर्ने यज्ञपात्रहरुलाई पनि तीन तीन पटक प्रोक्षण गरी समिधामा पनि तीन पटक

 प्रोक्षण गर्ने र परिस्तरण राख्ने

अथ परिस्तरणम्

ॐ ये ते शतं व्वरुणं ये सहस्रं यज्ञियाः पाशाविततामहान्तः ।
तेभिर्नोऽअद्यसवितो तद्विष्णुर्विश्वेमुञ्चन्तुमरुतः स्वर्काः स्वाहा ।

परिस्तरणप्रकारः

यसपछि तलको मन्त्र पढ्दै अग्निकोवरिपरि लामा लामा कुश राख्ने जस्तै

आग्नेयवाट ईशानतिर उत्तरतिर कुशकोटुप्पो बनाई राख्ने
ब्रह्मा देखी अग्निपर्यन्त पूर्वाग्र बनाएर कुश राख्ने
अग्निदेखी प्रणीता सम्म पूर्वटुप्पोबनाइ राख्ने

यसरी परिस्तरणराखे पछि
यथा यथास्थानमा हवनसामाग्री र अन्य पात्रहरु राख्ने
ॐ तत्त्वायामि ब्रह्मणाव्वन्दमानस्तदाशास्तेय्यजमानो हविर्भिः ।

अहेडमानोव्वरुणेहबोद्ध्युरुषꣳ समान आयुः प्रमोषीः ।

 पवित्रकोलागि भित्रको गुभोले सहित भएको तीनवटा कुश हातमा लिने

ॐ शादन्दद्भिरवकान्दन्तमूलैर्मृदम्बर्स्वैस्तेगान्द ᳩ ष्ट्राब्भ्या ᳩ सरस्वत्याऽअग्र जिह्वं जिह्वायाऽउत्सादमवक्क्रन्देनतालुव्वाज ꣳ हनुब्भ्यामपऽआस्येनव्वृषणमाण्डाब्भ्यामादित्याँश्म्मश्रुभिः पन्थानं भ्रूब्भ्यान्द्यावापृथिवीव्वर्तोभ्यां विद्युतङ्कनीनकाब्भ्या ᳩ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि यक्ष्माण्यवार्याऽइक्षवो ब्बार्याणि  पक्ष्माणि पार्याऽइक्षवः  ॥ 

उपयमनका लागि तेह्र ओटाकुश हातमालिने

ॐ उपयामगृहीतोस्यन्तर्य्यच्छमघवन्पाहि सोमम् ।
उरुष्यरायऽएषोयजस्व ॥ 

यज्ञमा चाहिने पन्ध्र ओटा समिधा अलग्गै राख्ने

ॐ समिधाग्निन्दुवस्यतघृतैर्बोधयतातिथिम् ।
आस्मिन्न्हव्याजुहोतन ॥

आज्य पात्रमा आज्य, चरुपात्रमा चरु पनि राख्नु
 
अथ घृतसंस्कारः

अब तामा वाहेक अन्यधातुमा अथवा माटाको पात्रमा बाह्र औला चौडा बराबर भएको आज्य थालीमा दुई ओटा पवित्रराख्ने, अग्निको पश्चिमतिर पवित्र राखिएको आज्यथालीमा आज्य राखी ईशान दिशामा अग्नि (कोइला ) माथि राखेर कुशजलाएर घीउमाथि घुमाइ कुशको अग्रभागटुप्पा भएको दुइकुश नङ् नलगाई छिनाएर पखाली आज्यपात्रमा राख्ने र फेरीपनि कुशजलाएर घीउमाथि तिनपटक घुमाइ कुशलाइ ईशानतिर फ्याकि दिने,

ॐ घृतवतीभुवनानामभिश्रियोर्व्वीपृथ्वीमधुदुघेसुपेशसा ।
द्यावा पृथिवीव्वरुणस्यधर्म्मणाविष्कवितेअजरे भूरिरेतसा ।

आज्यलाई अग्निवाट निकाली कोइलालाई अग्निमै राखेर पवित्रसहित भएको हातले अग्निको प्रदक्षिणा गराई आफ्ना अगाडी राखेर दुवैहातको बुढि औला र काञ्छि औलाले दुवै पवित्र लिएर आज्यलाई तीनपटक माथि छिटा दिने, घीउमा केही परेको भए हटाएर पवित्र ग्रन्थि खोलेर जलले प्रोक्षण गरी पूर्वटुप्पो गराइ अग्निमा राखिदिने
आज्यलाई अग्नि प्रदक्षिणा गराई आफ्ना अगाडी राख्ने

ॐ तेजोसि शुक्रमस्य मृतमसि धामनामासि।
प्रियन्देवानामनाधृष्टन्देवयजनमसि ॥

तलको मन्त्रले आज्य निरीक्षण गर्ने
ॐ आपवस्व हिरण्यवदश्श्ववत्सोमव्वीरवत्।
व्वाजङ्गोमन्तमाभर स्वाहा । 
दुवै पवित्रलिएर आज्यलाई तीनपटक माथि दिने-
ॐ प्रत्युष्ट ꣳ रक्षः प्रत्युष्टाऽअरातयोनिष्टप्त ꣳ रक्षो निष्टप्ताऽअरातयः ।
उर्व्वन्तरिक्षमन्वेमि ॥
 

आज्यमा केही परेको भए निरीक्षण गरी निकालि दिने

ॐ आत्वाहार्षमन्तरभूर्द्ध्रुवस्तिष्ठाव्विचाचलिः ।
व्विशस्त्वा सर्वाव्वाञ्छन्तुमात्वद्द्राष्ट्रमधिभ्रशत् ॥ 
आज्यमा पवित्र राख्ने-
ॐ विष्णोरराटमसि विष्णोः श्नप्त्रेस्त्थो व्विष्णोः स्यूरसि विष्णोर्ध्रुवोसि।
व्वैष्णवमसि विष्णवेत्त्वा ।
अथ चरुसंस्कारः
 
दध्योदनं तिलान्नञ्च सर्पिः क्षीरन्तथैव च ।
केवलान्नं पायसान्नं मुद्गान्नं च गुणौदनम् ॥
चरुरष्टविधः प्रोक्तो धर्मविद्भिः पुरातनैः ।
 
यसरी आठ प्रकारका चरुहरुमा यथासम्भव चरु चरुपात्रमा राखेर सम्प्रोक्षण गरी कुश जलाएर चरुमाथी घुमाइ केही परेको रहेछ भने निकालेर अग्निको प्रदक्षिणा गराई अग्निको पश्चिमपट्टि कुशमाथि कुशैले छोपेर राख्ने
ॐ पशुभिः पशूनाप्नोतिपुरोडाशैर्हवी ᳩ ष्ष्या ।
छन्दोभिःसामिधे नीर्य्याज्ज्याभिर्वषट्कारान् ॥ 
ॐ अन्नपतेन्नस्यनोदेह्यनमीवस्यशुष्मिणः ।
प्रप्प्रदातारन्तारिषऽऊर्ज्जन्नोधेहिद्विपदेचतुष्पदे । 
यसरी चरुलाई पनि दक्षिणपट्टिबाट परिक्रमा गराई आफ्ना अगाडी राखेर मार्जनकालागी तीन भन्दाअधिक कुशराख्ने
ॐ घृताच्यसिजुहूर्नाम्नासेदम्प्रियेणधाम्नाप्रिय ꣳ सदऽआसीद घृताच्च्यस्युपभृन्नाम्नासेदम्प्रियेणधाम्नाप्रिय ꣳ सदऽआसीद घृताच्यसिद्ध्रुवानाम्नासेदम्प्रियेणधाम्नाप्रिय ꣳ सदऽआसीद प्प्रियेणधाम्नाप्प्रिय ꣳ सदऽआसीद । ध्रुवाऽअसदन्नृतस्ययोनौ ताव्विष्णो पाहिपाहियज्ञम्पाहियज्ञपतिम्पाहि मां यज्ञन्न्यम् ॥
अथ स्रुवसंस्कारः
सुरोलाई अग्निमा तताएर सम्मार्जन कुशका अग्रभागले सुरोको अग्रभागमा, कुशका फेदले सुरोको फेदमा, कुशका मध्यले सुरोको मध्यमा र सवैतिर पुछिदिने पुनःसुरो तताएर प्रोक्षणगरी अग्निको उत्तरतिर राख्ने
यो मन्त्रले सुरो हातमालिने
ॐ स्रुचश्श्चमे चमसाश्श्चमे व्वायळ्यानिचमेद्रोणकलशश्श्चमे ग्ग्रावाणश्श्चमे धिषवणेच मे पूतभृच्चमऽआधवनीयश्श्चमेव्वेदिश्श्च मे बर्हिश्चमेऽवभृथश्श्चमे स्वगाकारश्श्चमे यज्ञेन कल्पन्ताम् ।

सम्मार्जन कुश लिएर प्रणीतोदकले सुरो प्रोक्षणगर्ने, यो क्रम अनुसार
(अग्रले अग्रभाग मध्यले मध्यभाग मूलले फेदमा )

ॐ प्रत्युष्ट ꣳ रक्षः प्प्रत्युष्टाऽअरातयो निष्टप्तꣳ रक्षो निष्टप्ताऽअरातय ।
उर्व्वन्तरिक्षमन्वेमि । 
दर्भले श्रुवसम्मार्जन गर्ने
ॐ अनिशितोसि सपत्क्नक्षिद्वाजिनीन्त्वाव्वाजेद्ध्यायै सम्मार्ज्मि ।
अग्निमा सुरो तताउने
ॐ पुनन्तु मां देवजनाः पुनन्तुमनसा धियः ।
पुनन्तु व्विश्वा भूतानि जातवेदःपुनीहि मा ॥
प्रणीताकोजलले सुरोलाई अभिषेकगर्ने-
ॐ शन्नोदेवीरभिष्टय आपोभवन्तु पीतये । शंयोरभिस्रवन्तु नः ।
पुन: सुरो तताउने-
ॐ तत्त्वायामि ब्रह्मणाव्वन्दमानस्तदाशास्तेय्यजमानो हविर्भिः ।
अहेडमानोव्वरुणेहबोद्ध्युरुष ꣳ समान आयुः प्रमोषीः ॥
सुरोलाई अग्निको उत्तरतिर कुशमाथिराख्ने-
ॐ तमुत्त्वादध्यङ्ऋषिः पुत्र ईधेऽअथर्वणः । व्वृत्रहणम्पुरन्दरम् ॥
प्रोक्षणीपात्रमा भएको पवित्रले प्रणीताकोजलमा चोभेर त्यहाँ भएकासामाग्रीमा सेचनगर्ने-
ॐ देवस्यत्वा सवितुः प्रसवेश्श्विनोर्बाहुब्भ्यांपूष्णो हस्ताभ्याम् ।
अग्नयेजुष्टगृह्णाम्म्यग्नीषोमाब्भ्याञ्जुष्टंगृह्णामि ।
अग्नीषोमाब्भ्यान्त्वाजुष्टन्नियुनज्मि ॥ 
अथवा
अद्भ्यस्त्वौषधीब्भ्योनुत्वा  मातामन्यतामनुपितानुब्भ्रातासर्गब्भ्योनु सखा सयूत्थ्यः ।
अग्निषोमा भ्यान्त्वाजुष्टम्प्रोक्षामि ॥ 

 

कुश जलाएर चरु आज्य र अग्निमाथि प्रदक्षिणाकोक्रमले घुमाएर अग्निमा राखिदिने –

ॐ धृष्टिरस्यपाग्नेऽअग्निमामादञ्जहिनिष्क्क्रव्याद ꣳ सेधादेवयजं व्वह।
ध्रुवमसिपृथिवीन्दृ ꣳ हब्ब्रह्मवनित्वाक्षत्रवनि सजातवन्युपदधामिब्भ्रातृव्यस्यव्वधाय ॥ 

पूर्णपात्रसंस्कारः

 

दुइ पवित्र पूर्णपात्रमा राखी कान्छी र बुढी औंलाले समातेर पूर्णपात्रलाई पूर्वपट्टी तीनपटक छिटादिइ अग्निकोदक्षिणतिरबाटट पूर्णपात्रल्याउने र मुख खोलेर ब्रह्माको समीपमा स्थापनागर्ने

अब चरुलाई कुशलेछोपेर ब्रह्मालाई समर्पणगर्ने
ॐ आप्यायस्व समेतुते विश्वतःसोमवृष्ष्ण्यम् ।
भवावाजस्य सङ्गथे ॥ 

अब विनियोगपूर्वक अग्निकोप्रार्थनागर्ने

चत्वारीत्यस्य वामदेवऋषिः त्रिष्टुप्छन्दो यज्ञपुरषवैश्वानर परमात्मा देवता अग्निप्रार्थने विनियोगः ।

ॐ चत्वारिश्रृङ्गात्रयोऽअस्यपादा द्वेशीर्षेसप्तहस्तासोऽअस्य ।
त्रिधाबद्धोव्वृषभोरोरवीतिमहोदेवोमर्त्यऽआविवेश ॥
अग्निं च ज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं सर्वतोसुखम् ॥
पावकं द्विजरूपञ्च त्रिनेत्रञ्च चतुर्भुजम् ।
त्रिशिखं सप्तजिह्वञ्च पञ्चलक्षणसंयुतम् ॥

त्रिभागन्तु मुख तस्य हाधिकं वक्त्रमुच्यते ।
उत्तरास्ये स्थितो विष्णुर्दक्षिणास्ये प्रजापतिः ॥
मध्यवक्त्रे तु चेशान एवं ब्रह्मप्रभाषितम् ।
मूर्ध्नि चैवत्वहं ब्रह्मा मुखे चैव तु शङ्करः ॥
जिह्वायां संस्थितो विष्णुर्दष्ट्रायां च ग्रहाः स्मृताः ।
नासायां देवताः सर्वाश्चक्षुषीन्दुदिवाकरौ ॥
ऋग्वेदो हृदयस्थाने बागुल्योर्यजुस्तथा ।
उदरे कटिगुह्ये च सामवेदः प्रकीर्तितः ॥
अथर्वो जङ्घपादे च ग्रीवायां प्रणवस्तथा ।
पृष्ठे चैव तु गायत्री एवं स्यात्तु षडङ्गकम् ॥

इति वैश्वानरलक्षणम्
त्रिशिखं च चक्रधर साक्षसूत्रकमण्डलुम् ।
व्याघ्रहस्तं तथा पुष्प गन्धाभरणभूषितम् ॥
अजास्कन्ध समारूढं कृष्णाजिनोत्तरीयकम् ।
ऋग्यजुः सामवेदानामथर्वध्वनिभूषितम् ॥
होमार्थ प्रार्थयेऽहं त्वां चर्वाज्याभ्यां हुताशनम् ।
ॐ अमुक वैश्वानर दिव्यरूप आवाहितो भव ॥

तावत् तिष्ठात्र मे ब्रह्मन् ! यावत्कर्म समाप्यते ।
स्वाहास्वधा सहिताय अग्नयेऽकाय नमः ॥

यसरी आवाहनगर्ने
रक्षाकङ्कणपूजनम्

त्रिगुणी कृतगरी एको सुनबाट नभए शुद्ध धागावाट निर्मित रक्षा कङ्कण दूवो सर्यु, चन्दन गोबर दहीले सहित  दुनामा राखेर त्यो दुनालाई पूर्णकुम्भको समीपमा राखी स्पर्शगर्दै

नारायणकवचम् 

 

 अथवा तलका मन्त्रहरु पाठगर्ने
ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां धरणीधरः ।
याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ॥
वारुण्यां केशवो रक्षेद्वायव्यां मधुसूदनः ।
उत्तरे श्रीधरो रक्षेदैशान्यां तु गदाधरः ॥
ऊर्ध्वं गोवर्धनो रक्षेदधस्तात्तु महेश्वरः ।
एवं दशदिशो रक्षेद्वासुदेवो जनार्दनः ॥
यज्ञाग्रे रक्षताच्छङ्ङ्खः पृष्ठे वै पद्ममुत्तमम् ।
वामपार्श्वे गदा रक्षेत् दक्षिणे च सुदर्शनः ॥
उपेन्द्रः पातु ब्रह्माणमाचार्यं पातु वामनः ।
ऋग्वेदमच्युतो रक्षेद्यजुर्वेदमधोक्षजः ॥
कृष्णो रक्षतु सामानमथर्वाणञ्च माधवः।
उपविष्टांश्च यान्विप्रान् तांश्च रुद्रोऽभि रक्षतु ॥
यजमानं सपत्नीकं पुण्डरीकाक्ष रक्षतु ।
रक्षाहीनं च यत्स्थानं तत्सर्व रक्षताद्धरिः ॥
अब तलकामन्त्रले रक्षासूत्रको पूजागर्ने
ॐ रक्षोहणंव्वलगहनंवैष्णवीमिदमहन्तंव्वलगमुत्किरामि, यम्मेनिष्ट्योयममात्योनिचखानेदमहन्तंव्वलगमुत्किरामियम्मे समानो यमसमानोनिचखानेदमहन्तंव्वलगमुत्किरामियम्मे सबन्धुयमसबन्धुर्निचखानेदमहन्तंव्वलगमुत्किरामियम्मेसजातो यमसजातोनिचखानोत्कृत्याङ्किरामि ॥ 
ॐ स्वराडसिसपत्क्नहासत्रराडस्यभिमातिहाजनराडसिरक्षोहा सर्व्वराडस्यमित्त्रहा ॥
ॐ रक्षोहणोवोव्वलगहनःप्प्रोक्षामिव्वैष्णवान्रक्षोहणोवोव्वलगहनो वनयामिव्वैष्णवान्न्रक्षोहणोवोव्वलगहनोव्वस्तृणामिव्वैष्णवान्न्रक्षोह णौवांव्वलगहनाऽउपदधामिव्वैष्णवीरक्षोहणौवांव्वलगहनौ पर्यूहामि व्वैष्णवीव्वैष्णवमसिव्वैष्णवास्त्थ ।

ॐ सप्तऽऋषयःप्रतिहिताःशरीरेसप्तरक्षन्तिसदमप्प्रमादम्। सप्तापः स्वपतोलोकमीयुस्तत्रजागृतोऽअस्वप्नजौसत्रसदौचदेवौ ॥

यसरी पूजन गरेर वायाँ हातमा रक्षाकङ्कणराखी दाहिने हातले ढाकेर प्रतिसरसूक्तले अभिमन्त्रणगर्ने

ॐ कृणुष्ष्वपाजःप्रसितिन्नपृत्थ्वींष्याहिराजेवामवाँ२ऽइभेन ।
तृष्ष्वीमनुप्प्रसितिन्द्रूणानोरस्तासिव्विद्ध्यरक्षसस्तपिष्ठैः ।
 
ॐ तवब्भ्रमासऽआशुयापतन्त्यनुस्पृशधृषताशोशुचानः ।
तपू ᳩ ष्ष्यग्नेजुह्वापतङ्गानसन्दितोव्विसृजविष्ष्वगुल्क्काः ॥
 
ॐप्रतिस्प्पशोविसृजतूर्णितमोभवापायुर्व्विशोऽअस्याऽअदब्धः ।
षोनोदुरेऽअघस ꣳ सोषोऽअन्त्यग्नेमाकिष्टेव्व्यथिरादधर्षीत् ॥
 
ॐउदग्नेतिष्ठप्प्रत्यातनुष्वन्न्यमित्राँ२ ओषतात्तिग्ग्महेते ।
योनोऽअराति ꣳ समिधानचक्क्रेनीचातन्धक्ष्यतसन्नशुष्कम् ॥
 
ॐउद्ध्र्ध्वोभवप्प्रतिविद्ध्याद्ध्यस्मदाविष्कृणुष्ष्वदैव्यान्यग्ने ।
अवस्थिरातनुहिषातुजूनाञ्जामिमजामिम्प्रमृणीहिशत्रून् ।
अग्ग्नेष्ट्वा तेजसा सादयामि ॥
 
ॐ अग्निर्मूर्द्धादिवःककुत्त्पत्तिः पृथिव्याऽअयम् ।
अपा ᳩ रेता ᳩ सिजिन्वति । इन्द्रस्यत्त्वौजसासादयामि ॥
अथ रक्षाकङ्कणबन्धनम् 
 
अब रक्षाकङ्कण बाध्ने

ॐ नतद्रक्षाᳩ सिनापिशाचास्तरन्तिदेवानामोजः प्प्रथमजᳩ ह्येतत् ।
योबिभर्त्तिदाक्षायणꣳ हिरण्यꣳ सदेवेषुकृणुतेदीर्घमायुः समनुष्येषुकृणुतेदीर्घमायुः ॥ 

 

ॐ बृहत्साम क्षत्रभृद् बृद्धबृष्ण्यं त्रिष्टुभौजः सुभितमुग्रवीरम् ।
इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वा तेन सगरेण रक्षा ॥

 

ॐ तवब्भ्रमासऽआशुयापतन्त्यनुस्पृशधृषताशोशुचानः ।
तपू गुँ ष्ष्यग्नेजुह्वापतङ्गानसन्दितोव्विसृजविष्ष्वगुल्क्काः ॥

 

ॐ प्रतिस्प्पशोविसृजतूर्णितमोभवापायुर्व्विशोऽअस्याऽअदब्धः ।
षोनोदुरेऽअघस ꣳ सोषोऽअन्त्यग्नेमाकिष्टेव्व्यथिरादधर्षीत् ॥

 

ॐ उदग्नेतिष्ठप्प्रत्यातनुष्वन्न्यमित्राँ२ ओषतात्तिग्ग्महेते ।
योनोऽअराति ꣳ समिधानचक्क्रेनीचातन्धक्ष्यतसन्नशुष्कम् ॥

 

ॐ ऊर्ध्वोभवप्प्रतिविद्ध्याद्ध्यस्मदाविष्कृणुष्ष्वदैव्यान्यग्ने ।
अवस्थिरातनुहिषातुजूनाञ्जामिमजामिम्प्रमृणीहिशत्रून् । अग्ग्नेष्ट्वा तेजसा सादयामि ॥

 

ॐ अग्निर्मूर्द्धादिवः ककुत्त्पत्तिःपृथिव्याऽअयम् ।
अपाᳩ रेताᳩ सिजिन्वति । इन्द्रस्यत्त्वौजसासादयामि ॥ 

ॐ सरस्वतेऽनुमन्यस्वः अग्निको उत्तरतिर पूर्वाग्र जलधारा दिनु
ॐ देवसवितः प्रसुवः अग्निको चारैतिर जलधारा दिनु
अथ इध्माधानम्
यसरी त्यहाँ स्थापनागरीएका सवै देवताहरुको पूजनगरी, अग्नि प्रज्वलितगरेर पन्ध्रवटासमिधालाइ आज्यले भिजाएर पुष्पाक्षताले पूजागरी आफुपनि अलंकृत भई अस्मिन् होमकर्मणि भो ! ब्रह्मन्निध्माधास्ये भन्दै ( आधत्स्व )
यसरी अनुज्ञा लिइ उपयमन कुश वायाँहातमा लिएर उठी प्रजापतिलाई मनमा ध्यान गर्दै मौन भई प्रज्वलित अग्निमा पन्ध्र ओटासमिधा हवनगर्ने
अब स्रुवाले आज्यालिएर-
ॐ प्रजापतये स्वाहा प्रजापतय इदं न मम ।
नैर्ऋत्यदेखि ईशानसम्म धारालगाइ हवनगरी प्रणीतामा संस्रव ( थोरै घ्यू ) राख्ने
ॐ इन्द्राय स्वाहा इन्द्राय इदं न मम ।
वायव्यदेखि आग्नेयसम्मधारालगाइ हवनगरी प्रणीतामा संस्रव ( थोरै घ्यू ) राख्ने
ॐ अग्नये स्वाहा अग्नये इदं न मम
अग्निको दक्षिणतिर हवनगरी प्रणीतामा संस्रव ( थोरै घ्यू ) राख्ने
ॐ सोमाय स्वाहा सोमाय इदं न मम ।
अग्निको उत्तरतिर हवनगरी प्रणीतामा संस्रव ( थोरै घ्यू ) राख्ने
अथ अग्नेर्जिह्वानामभिर्होमः
ईशानमा – ॐ प्रभायै स्वाहा । पूर्वतिर – ॐ दीप्त्यै स्वाहा ।
आग्नेयमा-ॐ प्रकाशायै स्वाहा । नैऋत्यमा – ॐ मरीच्यै स्वाहा ।
पश्चिममा – ॐ तापिन्यै स्वाहा । वायव्यमा – ॐ करालायै स्वाहा ।
उत्तरमा— ॐलेलिहाय स्वाहा । दक्षिणमा – ॐ लेलिहायै स्वाहा ।
बीचमा – ॐ लेलिहायै स्वाहा ।
पुष्पाञ्जलिलिई प्रार्थनागर्ने

द्विशीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकम् ।
वरदं शक्तिपाणिञ्च विभ्राणं स्रुक् श्रुवौ तथा ॥
स्वाहाञ्च दक्षिणे पार्श्वे वामे देवीं स्वधान्तथा ।
रक्तमाल्याम्बरधरमेवमग्निं विचिन्तयेत् ॥ 

अथ पञ्चवारुणिहोमः

१. प्रजापतय इति प्रजापति ऋषिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः ।
ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम ।
अग्निमा हवनगरेर सुरोमारहेको केही मात्रा घ्यू  प्रोक्षणी पात्रमा पनि हाल्ने  ।
यसैगरी सवैतिर अगाडी पनि गर्नु
२. इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्दः इन्द्रोदेवता आज्यहोमे विनियोगः ।
ॐ इन्द्राय स्वाहा इदमिन्द्राय न मम ।
अग्निमा हवनगरेर सुरोमा रहेको घ्यू प्रोक्षणीपात्रमा राख्ने ।
( यी दुइ आहुति आधारभाग संज्ञकहुन् )
३. अग्नय इति प्रजापति ऋषिस्त्रिष्टुप्छन्दोग्निर्देवता आज्यहोमे विनियोगः ।
ॐ अग्नये स्वाहा इदमग्नये नम ।
केही मात्रा घ्यू  प्रोक्षणी पात्रमा पनि हाल्ने  ।
४. ॐ सोमायेति प्रजापतिऋषिस्त्रिष्टुप्छन्दः सोमोदेवता आज्यहोमे । विनियोगः ।
ॐ सोमाय स्वाहा सोमाय इदं न मम ।
 केही मात्रा घ्यू  प्रोक्षणी पात्रमा पनि हाल्ने  ।
५. ॐ महाव्याहृतीनां प्रजापतिऋषि: अग्निवायुसूर्यो देवता गायत्री उष्णिक् अनुष्टुप्छन्दांसि अग्न्याधाने विनियोगः ॥
ॐ भूः स्वाहा इदमग्नये न मम । प्रोक्षणी पात्रमा राख्ने-
ॐ भुवः स्वाहा इदं वायवे न मम । प्रोक्षणी पात्रमा राख्ने-
ॐ स्वः स्वाहा इदं सूर्याय न मम । प्रोक्षणी पात्रमा राख्ने-
६. ॐ त्वन्नोअग्नइति वामदेवऋषिः अग्निवरुणौ देवते त्रिष्टुप्छन्दःआज्यहोमे विनियोगः ॥
ॐ त्वन्नोऽअग्नेव्वरुणस्यव्विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः ।
यजिष्ठोवह्नितमः शोशुचानोविश्वाद्वेषाᳩ सिप्प्रमुमुग्ध्यस्मत् ॥
ॐ अग्निवरुणाभ्यां स्वाहा अग्निवरुणाभ्यां इदं न मम ।
प्रोक्षणी पात्रमाराख्ने
७. ॐ सत्वन्नअग्न इति वामदेवऋषिः त्रिष्टुप्छन्दः अग्निवरुणौ देवते आज्यहोमे विनियोगः ।
ॐ सत्वन्नोऽअग्ने व्वमोभवोतीनेदिष्ठोऽअस्याऽउषसो व्युष्टौ ।
अवयक्क्ष्वनोव्वरुण गूँ रराणोव्वीहिमृडीक गूँ सुहवोनऽएधि ॥
ॐ अग्निवरुणाभ्यां स्वाहा अग्निवरुणाभ्यां इदं न मम ।
प्रोक्षणी पात्रमाराख्ने
८. ॐ अयाश्चाग्न इति वामदेवऋषिः त्रिष्टुप्छन्दः अग्निर्देवता सर्व प्रायश्चित्त होमे विनियोगः ।
ॐअयाश्चाग्नेस्यनभिशस्तिपाश्चसत्वमित्व मयाऽअसि ।
अयानो यज्ञं वहास्ययानोधेहि भेषज गूँ स्वाहा ॥
ॐ अग्नये स्वाहा अग्नये इदं न मम ।

प्रोक्षणी पात्रमाराख्ने
९. ॐ ये ते शतमिति वामदेवऋषिः त्रिष्टुप्छन्दो वरुणः सविता विष्णुर्विश्वेदेवमरुत्स्वर्कादेवताः प्रायश्चित्त होमे विनियोगः ।
ॐ ये तेशतं व्वरुणं ये सहस्रं यज्ञियाः पाशावितता महान्तः ।
तेभिर्नोऽअद्य सवितोतद्विष्णुर्विश्वेमुञ्चन्तुमरुतः स्वर्काः ॥
ॐ वरुणाय स्वाहा, सवित्रे स्वाहा, विष्णवे स्वाहा,
विश्वेभ्यो देवेभ्यः स्वाहा, मरुद्भ्यः स्वाहा, स्वर्केभ्यः स्वाहा ।
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम।
१०. ॐ उदुत्तममिति शुनशेपऋषिः त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः ।
ॐ उदुत्तमंव्वरुणपाशमस्म्मदवाधमंव्विमध्यम ꣳ श्रथाय ।
अथाव्वयमादित्यव्रतेतवानागसोऽअदितयेस्याम ॥ 
ॐ वरुणाय स्वाहा वरुणाय इदं न मम ।
यसरी पञ्चवारुणीहोम गरेर मूलमन्त्रले १०८ पटक हवनगरी पञ्चसूक्तले घ्यू र चरु हवनगर्ने
अथ पुरुषसूक्तम्
हरिः ॐ सहस्रशीर्षा पुरुष सहस्राक्षः सहस्रपात् ।
सभूमि सर्व्वतस्पृत्त्वात्यतिष्ठद्दशाङ्गुलम् ॥
ॐ पुरुषाय नारायणाय नमः स्वाहा ।
अथ विष्णुसूक्तम्‌

ॐ विष्णोर्नुकं वीर्य्यीणि प्रवोचंयः पार्थिवानि विममेरजांᳩसि।
योऽअस्कभायदुत्तरᳩ सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥

ॐ विष्णवे नमः स्वाहा
श्रीसूक्तम्‌
हरिःॐ  हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्‌ ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

ॐ  श्रीं श्रीदेव्यै नमः स्वाहा
 
अथ भूसूक्तम्‌

ॐ  भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महित्वा ।
उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥

ॐ भूं भूदेव्य नमः स्वाहा
अथ नीलासूक्तम्‌
ॐ  श्रृण्वन्ति श्रोणाममृतस्यगोपां पुण्यामस्याऽउपश्रृणोमि वाचम्‌।
महीं देवीं विष्णुपत्नीमजूर्या प्रतीचीमेनां हविषा यजामः ॥

ॐ  नीं नीलादेव्यै नमः स्वा
 
अथ मध्यमहोमः
कर्म अनुसारको विशेषहवन भएमा त्यसलाइ गर्ने र त्यसैलाई नै मध्यमहोम भनिन्छ  । यहाँ समय र शक्तिभएमा विष्णुसहस्रनामले पनि हवन गर्ने ।
 

 हवनविधि  उत्तराङ्गहोम नेपाली भाषा सहित

अथोत्तरहोमः

ॐ  वाचस्पतिं विश्वकर्माणमूतयेमनोजुवंव्वाजेऽअद्याहुवेम ।
सनो व्विश्वानि हवनानि जोषद्द्विशश्वशम्भूरवसे साधुकर्म्मा ॥
ॐ  सायुधाय सशक्तिकाय सपरिवाराय श्रीमते विष्वक्सेनाय नम: स्वाहा ।

ॐ  देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयतास्तमायन्‌।
येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्वहन्ति ॥

ॐ  सायुधाय सशक्तिकाय सपरिवाराय सुदर्शनाय नमः स्वाहा ।

ॐ शेषन्नुतऽइन्द्र सस्मिन्योनौ प्रशस्तये पवीरस्यमह्ना ।
सृजदर्णा स्यवयधुधागास्तिष्ठद्धरी धृषता मृष्टवाजाम्‌ ॥

ॐ  सायुधाय सशक्तिकाय सपरिवाराय शेषाय नमः स्वाहा
ॐ कि ᳩ स्विद्वनङ्कऽउसव्वृक्षऽआसयतोद्यावापृथिवीनिष्टतक्षुः ।
मनीषिणो मनसापृच्छते दुतद्यदद्भ्यतिष्ठद्‌भुवनानि धारयन्‌ ॥

ॐ  सायुधाय सशक्तिकाय सपरिवाराय अनन्ताय नमः स्वाहा ।

ॐ सुपर्णं विप्रा कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति ।
छन्दा ᳩ सि च दधतोऽअध्वरेषु ग्रहान्‌ सोमस्य मिमते द्वादशः ॥
ॐ  सायुधाय सशक्तिकाय सपरिवाराय गरुडाय नमः स्वाहा ।
ॐ यज्ञेनयज्ञमयजन्तदेवास्तानिधर्म्माणि प्रथमान्न्यासन्‌।
तेहनाकं महिमानःसचन्तयत्रपूर्व्वे साध्याः सन्ति देवाः ॥ 
ॐ  साध्येभ्यो नमः स्वाहा ॥
ॐ  स्वादुष ꣳ सदः पितरोव्वयोधाः कृच्छ्रेश्श्रितः शक्तीवन्तो गभीराः ।
चित्रसेनाऽइषुवलाऽअमृद्धाः सतोवीराऽउरवोव्व्रात साहा: ॥ 
ॐ  सायुधाय सशक्तिकाय सपरिवाराय हेतये नमः स्वाहा ।
अथ चतुर्विशतिनामहोमः
ॐ  केशवाय नमः स्वाहा
ॐ  नारायणाय नमः स्वाहा
ॐ  माधवाय नमः स्वाहा
ॐ  गोविन्दाय नमः स्वाहा
ॐ  विष्णवे नमः स्वाहा
ॐ  मधुसूदनाय नमः स्वाहा
ॐ  त्रिविक्रमाय नमःस्वाहा
ॐ वामनाय नमः स्वाहा
ॐ  श्रीधराय नमः स्वाहा
ॐ  हृषीकेशाय नमः स्वाहा
ॐ  पद्मनाभाय नमः स्वाहा
ॐ दामोदराय नमः स्वाहा
ॐ वासुदेवाय नमः स्वाहा
ॐ संकर्षणाय नमः स्वाहा
ॐ प्रद्युम्नाय नमः स्वाहा
ॐ अनिरुद्धाय नमः स्वाहा
ॐ पुरुषोत्तमाय नमः स्वाहा
ॐ अधोक्षजायनमः स्वाहा
ॐ नारसिंहाय नमः स्वाहा
ॐ अच्युताय नमः स्वाहा
ॐ जनार्दनाय नमः स्वाहा
ॐ उपेन्द्राय नमः स्वाहा
ॐ हरये नमः स्वाहा
ॐ श्रीकृष्णाय नमः स्वाहा
ॐ श्रीदेव्यै नमः स्वाहा
ॐ भूदेव्यै नमः स्वाहा
ॐ नीलादेव्यै नमः स्वाहा
ॐ गोदादेव्यै नमः स्वाहा
अथ वैकुण्ठपार्षदनामहोमः 
ॐ  आधारशक्त्यै नमः स्वाहा
ॐ  प्रकृत्यै नमः स्वाहा
ॐ अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नमः स्वाहा
ॐ अनन्ताय नागराजाय नमः स्वाहा
ॐ भूम्यै नमः स्वाहा
ॐ वैकुण्ठाय दिव्यलोकाय नमः स्वाहा
ॐ वैकुण्ठाय दिव्यजनपदाय नमः स्वाहा
ॐ वैकुण्ठाय दिव्यनगराय नमः स्वाहा
ॐ वैकुण्ठाय दिव्यविमानाय नमः स्वाहा
ॐ आनन्दमयाय दिव्यमण्डपरत्नाय नमः स्वाहा
ॐ आस्तरणरूपिणे अनन्ताय नागराजाय नमः स्वाहा
ॐ धर्माय पीठपादाय नमः स्वाहा
ॐ  ज्ञानाय पीठपादाय नमः स्वाहा
ॐ वैराग्याय पीठपादाय नमः स्वाहा
ॐ ऐश्वर्याय पीठपादाय नमः स्वाहा
ॐ ऋग्वेदाय पीठवाहकाय नमः स्वाहा
ॐ यजुर्वेदाय पीठवाहकाय नमः स्वाहा
ॐ सामवेदाय पीठवाहकाय नमः स्वाहा
ॐ अथर्ववेदाय पीठवाहकाय नमः स्वाहा
ॐ अधर्माय पीठगात्राय नमः स्वाहा
ॐ अज्ञानाय पीठगात्राय नमः स्वाहा
ॐ अवैराग्याय पीठगात्राय नमः स्वाहा
ॐ अनैश्वर्याय पीठगात्राय नमः स्वाहा
ॐ एभिःपरिच्छिन्नतनवे पीठभूताय नागराजाय नमःस्वाहा
ॐ पीठस्योपरिअष्टदलपद्माय नमः स्वाहा
ॐ सोममण्डलाय नमः स्वाहा
ॐ सूर्यमण्डलाय नमः स्वाहा
ॐ वह्निमण्डलाय नमः स्वाहा
ॐ विमलायैचामरकरायै नमः स्वाहा
ॐ क्रियायै चामरकरायै नमः स्वाहा
ॐ उत्कर्षिण्यै चामरकरायै नमः स्वाहा
ॐ ज्ञानायै चामरकरायै नमः स्वाहा
ॐ प्रह्वै चामरकरायै नमः स्वाहा
ॐ ईशानायै चामरकरायै नमः स्वाहा
ॐ सत्यायै चामरकरायै नमः स्वाहा
ॐ योगायै चामरकरायै नमः स्वाहा
ॐ अनुग्रहायै चामरकरायै नमः स्वाहा
ॐ जगत्प्रकृतये चामरकराय नमः स्वाहा
ॐ सहस्रशीर्ष्णे अनन्ताय नमः स्वाहा
ॐ पुरतः पादपीठाय नमः स्वाहा
ॐ भगवद्पादुकाभ्यां नमः स्वाहा
ॐ अस्मद्गुरुभ्यो नमः स्वाहा
ॐ अस्मत्परमगुरुभ्यो नमः स्वाहा
ॐ अस्मत्सर्वगुरुभ्यो नमः स्वाहा
ॐ श्रीमते रामानुजाय नमः स्वाहा
ॐ श्रीपरांकुशदासाय नमः स्वाहा
ॐ श्रीमद्यामुनमुनये नमः स्वाहा
ॐ श्रीराममिश्राय नमः स्वाहा
ॐ श्रीपुण्डरीकाक्षाय नमः स्वाहा
ॐ श्रीमन्नाथमुनये नमः स्वाहा
ॐ श्रीमते शठकोपाय नमः स्वाहा
ॐ श्रीमतेविष्वक्सेनाय नमः स्वाहा
ॐ श्रियै नमः स्वाहा
ॐ श्रीधराय नमः स्वाहा
ॐ सुदर्शनायहेतिराजायनमः स्वाहा
ॐ पाञ्चजन्यायशंखाधिपतयेनमः स्वाहा
ॐ कोमोदक्यैगदाधिपतयेनमः स्वाहा
ॐ  नन्दकायखड्गाधिपतयेनमः स्वाहा
ॐ शार्ङ्गायचापाधिपतयेनमः स्वाहा
ॐ श्रीवत्सायश्रीनिवासायनमः स्वाहा
ॐ कौस्तुभायसर्वरत्नाधिपतयेनमः स्वाहा
ॐ वैजयन्त्यैवनमालायैनमः स्वाहा
ॐ हों पुष्ट्यै नमः स्वाहा
ॐ ऐं सरस्वत्यै नमः स्वाहा
ॐ द्रां निद्रायै नमः स्वाहा
ॐ क्लीं कान्त्यै नमः स्वाहा
ॐ कं पृथिव्यै नमः स्वाहा
ॐ गं गरुडाय नमः स्वाहा
ॐ किरीटाय मुकुटाधिपतये नमः स्वाहा
ॐ मकराकृतिकुण्डलाभ्यां नमः स्वाहा
ॐ कण्ठिकाभरणाय नमः स्वाहा
ॐ किरीटमालायै आपीडात्मिकायै नमःस्वाहा
ॐ श्रीमत्तुलस्यै नमः स्वाहा
ॐ हाराय सर्वाभरणाधिपतये नमः स्वाहा
ॐ काञ्चीगुणोज्चलाय पीताम्बरायनमः स्वाहा
ॐ सर्वेभ्यो भगवद्भूषणेभ्यो नमः स्वाहा
ॐ सर्वेभ्यो भगवद्दिव्यायुधेभ्यो नमः स्वाहा
ॐ सर्वाभ्यो भगवत्पादसंवाहिनीभ्यो नमः स्वाहा
ॐ सर्वेभ्यो भगवत्परिकरेभ्यो नमः स्वाहा
ॐ अनन्ताय नमः स्वाहा
ॐ विष्वक्सेनाय नमः स्वाहा
ॐ सूत्रवत्यै नमः स्वाहा
ॐ जं जयत्सेनाय नमः स्वाहा
ॐ गं गजाननाय नमः स्वाहा
ॐ हं हयाननाय नमः स्वाहा
ॐ कं कालप्रकृतिसंज्ञाय नमः स्वाहा
ॐ सर्वेभ्यो विष्वक्सेनपरिजनेभ्यो नमः स्वाहा
ॐ चण्डाय नमः स्वाहा ॐ प्रचण्डाय नमः स्वाहा
ॐ भद्राय नमः स्वाहा ॐ सुभद्राय नमः स्वाहा
ॐ जयाय नमः स्वाहा ॐ विजयाय नमः स्वाहा
ॐ धात्रे नमः स्वाहा ॐ विधात्रे नमः स्वाहा
ॐ कुमुदायसायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ कुमुदाक्षाय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ पुण्डरीकाय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ वामनाय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ शंकुकर्णाय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ सर्पनेत्राय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ सुमुखाय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ सुप्रतिष्ठिताय सायुधाय सपरिवाराय सशक्तिकाय नमः स्वाहा
ॐ सर्वेभ्यो भगवद्गणाधिपतिभ्यो नमः स्वाहा
ॐ नित्येभ्यो नमः स्वाहा
ॐ मुक्तेभ्यो नमः स्वाहा
ॐ दिव्येभ्यो नमः स्वाहा
ॐ समस्तपरिवाराय श्रीमते नारायणाय नमः स्वाहा
अथ अष्टवसुहोमः
ॐ सुगावो देवाः सदनाऽअकर्म्मयऽआजग्मेद ꣳ सवनञ्जुषाणाः ।
भरमाणाव्वहमानाहवी ᳩ ष्यस्म्मेधत्तवसवोव्वसूनिस्स्वाहा ॥
ॐ अष्टसुभ्यो नमः स्वाहा
दिग्द्वारपालहोमः
ॐ त्रातारमिन्द्रमवितारमिन्द्र ꣳ हवेहवेसुहव ꣳ शूरमिन्द्रम्‌ ।
 ह्वयामिशक्क्रम्पुरुहूतमिन्द्र ꣳ स्वस्त्तिनोमघवाधात्विन्द्रः ॥
ॐ  इन्द्राय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ।
ॐ त्वन्नोऽअग्नेव्वरुणस्यविद्वान्देवस्यहेडोऽअवयासिसीष्ठ्ठा यजिष्ठो
वह्नितम ꣳ शो शुचानो विश्वाद्वेषा ᳩ सिप्रमुमुरध्यस्मत्‌ ॥ 
अग्नये सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ।
ॐ  अद्यादेवाऽउदितासूर्यस्यनिर ꣳ हसःपिपृतानिरवद्यात्‌ ।
तन्नोमित्रो वरुणोमामहन्तामदितिः सिन्धुः पृथिवीउतद्यौः ।
ॐ  सूर्याय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ॥
ॐ  सुगन्नः पन्थाऽअभयं कृणोतु यस्मिन्नक्षत्रे यमराजातिराजा ।
 यस्मिन्नेनमभिषिञ्चन्तिदेवास्तदस्य चित्र ꣳ हविषा यजामः ॥
ॐ यमाय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा
ॐ  असुन्वन्तमयजमानमिच्छस्ते नस्ये त्यामन्न्विहितस्क्करस्य ।
अन्न्यमस्मदिच्छसातऽइत्यानमो देवि निर्ऋते तुब्भ्यमस्तु ॥
ॐ  निर्ऋतये सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा

ॐ तन्न्मित्रस्यव्वरुणस्याभिचक्षे सूर्य्योरूपंकृणुते द्यौरुपस्थे ।
अनन्तमन्यद्रुशदस्यपाजःकृष्णमन्यद्धरितःसम्भरन्ति ॥
ॐ अनन्ताय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा

 ॐ  तत्त्वायामि ब्रह्मणाव्वन्दमानस्तदाशास्तेयजमानो हविर्भिः ।
अहेडमानोव्वरुणेहबोद्ध्युरुष ꣳ समान
आयुः प्रमोषीः ॥ 

ॐ  वरुणाय सशक्तिकाय भगवत्पार्षदाय नम: स्वाहा

ॐ आनोनियुद्भिः शतिनीभिरद्धर ꣳ सहस्रिणीभिरुपयाहियज्ञम्‌ ।
वायोऽअस्म्मिन्त्सवनेमादयस्वयूयम्पातस्वस्तिभिःसदा नः ।
ॐ  वायवे सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा

ॐ राजाधिराजायप्रशह्यशायिने नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान्कामकामायमह्यं कामेश्वरो वैश्रवणो ददातु ॥
ॐ वैश्रवणाय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ॥

ॐ  सोमोधेनु ꣳ सोमोऽअर्व्वन्तमाशु ᳩ सोमोव्वीरङ्कर्मण्यन्ददाति ।
सादन्यं विदत्थ्य ꣳ सभेयम्पितृश्श्रवणंय्योददाशदस्मै ॥
ॐ सोमाय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ।

ॐ तमीशानञ्जगतस्तस्थुषस्पतिन्धियञ्जिन्वमवसेहूमयेव्वयम्‌ ।
पूषानो यथा व्वेदसामसद्वृधेरक्षितापायुरदब्धः स्वस्तये ॥
ॐ  ईशानाय सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ।
ॐ ब्रह्मजज्ञानम्प्रथमम्पुरस्ताद्विसीमतःसुरुचोव्वेनऽआवः ।
सबुध्ध्न्याऽउपमाऽअस्यविष्ठाःसतश्चयोनिमसतश्चव्विवः ।
ॐ ब्रह्मणे सशक्तिकाय भगवत्पार्षदाय नमः स्वाहा ।
अथ प्रायश्चित्तहोमः ।
अब हातमा जल अक्षता आदि लिएर सङ्कल्प गर्ने
ॐ  अस्य अमुक……..कर्माङ्गहोमकर्मणः मध्ये संभवन्मन्त्रविधि विपर्यासन्यूनातिरिक्तस्वराक्षरव्यत्यासप्रायश्चितार्थमाहुतीर्होष्यामि ।
 यसरी संकल्पगरी श्रुवाद्वाराआज्यलिई हवनगर्ने
ॐ अनाज्ञातं यदज्ञातं यज्ञस्यक्रियते मिथुः ।
 अग्नेतदस्यकल्पयत्व ꣳ हि वेत्थ  यथातथम्‌ ॥
ॐ  अग्नये स्वाहा अग्नये इदं न मम ।
ॐ  पुरुषसम्मितो यज्ञो यज्ञः पुरुष सम्मितः ।
अग्नेतदस्य कल्पयत्व ꣳ हि वेत्थ  यथातथम्‌ ॥
ॐ  अग्नये स्वाहा । अग्नये इदं न मम ।
ॐ यदविद्वांसो यद्विद्वांसो मुग्धाः कुर्वन्ति ऋत्विजः ।
अग्निर्म्मातस्म्मादेनसः श्रद्धा देवी च मुञ्चताम् ॥
ॐ अग्नये श्रद्धादेव्यै च स्वाहा ।
ॐ अग्नये श्रद्धादेव्यै इदं न मम ।
अब सेतोतिल र आज्यद्वारा १०८ पटक हवन गर्ने
ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् ।
ऊर्व्वारुकमिवबन्धनान्न्मृत्योर्मुक्षीयमामृतात् ॥ 

ॐ त्र्यम्बकाय नमः स्वाहा । त्र्यम्बकाय इदं न मम ।

अब आज्यले १०८ पटक हवन गर्ने –
ॐ इदंव्विष्णुर्व्विचक्रमेत्रेधानिदधे पदम् ।
समूढमस्यपा ꣳ सुरे स्वाहा । 
ॐ विष्णवे नमः स्वाहा । विष्णवे इदं न मम ।
यसपछि घीउलेमात्र हवनगर्ने
ॐ स्वस्तिदा विशस्यति वृत्रहाविमृधो वशी ।
वर्षेन्द्रः पुरऽएतुनः स्वस्तिदाऽअभयङ्करः ॥
ॐ इन्द्राय अभयङ्कराय स्वाहा । इन्द्राय इदं न मम ।
ॐ पुनस्त्वादित्त्यारुद्द्रावसवः समिन्धताम्पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेनत्वन्तन्न्वंवर्द्धयस्वसत्त्याः सन्तु यजमानस्य कामाः ॥
ॐ अग्नयेवसुनीताय स्वाहा । अग्नये वसुनीताय इदं न मम ।
अथ स्वीष्टकृद्धोमः
ॐ यदस्य कर्मणोऽअत्यरीरिचं यद्वान्यूनमिहाकरम्‌ ।
अग्निष्टुत्स्विष्टकृद्विद्वान्‌ सर्वं स्विष्टं सुहुतं करोतु ॥
 ॐ  अग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृते इदं न मम ।
ॐ  भू: स्वाहा अग्नये इदं न मम । प्रोक्षणी पात्रमा थोरै अवशेष आज्य राख्ने
ॐ  भुवः स्वाहा वायवे इदं न मम । प्रोक्षणी पात्रमा थोरै अवशेष आज्य राख्ने
ॐ स्वः स्वाहा सूर्याय इदं न मम ।प्रोक्षणी पात्रमा थोरै अवशेष आज्य राख्ने
ॐ त्वन्नोऽअग्नेव्वरुणस्यव्विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः ।
 यजिष्ठोवह्नितमःशोशुचानोविश्वाद्वेषा ᳩ सिप्प्रमुमुग्ध्यस्मत्‌॥
ॐ अग्निवरुणाभ्यां स्वाहा । अग्निवरुणाभ्यां इदं न मम ।
प्रोक्षणी पात्रमा थोरै अवशेष आज्य राख्ने
ॐ  सत्वन्नोऽअग्ने व्वमो भवोतीनेदिष्ट्ठोऽअस्याऽउषसो व्युष्ट्टौ  ।
अवयक्ष्वनोव्वरुण ꣳ रराणोव्वीहिमृडीक ꣳ सुहवोनएधि ॥
ॐ अग्निवरुणाभ्यां स्वाहा । अग्निवरुणाभ्यां इदं न मम ।
प्रोक्षणी पात्रमा थोरै अवशेष आज्य राख्ने

ॐ अयाश्चाग्नेस्यनभिशस्तिपाश्चसत्वमित्व मयाऽअसि ।

अयानो यज्ञं बहास्ययानोधेहि भेषज ᳩ स्वाहा ॥
ॐ  अग्नये स्वाहा । अग्नये इदं न मम ।
प्रोक्षणी पात्रमा थोरै अवशेष आज्य राख्ने
ॐ ये तेशतं व्वरुणं ये सहस्रं यज्ञियाः पाशावितता महान्तः ।
तेभिर्नोऽअद्य सवितोतद्विष्णुर्विश्वेमुञ्चन्तुमरुतः स्वर्काः ।
ॐ वरुणाय स्वाहा ।  सवित्रे स्वाहा । विष्णवे स्वाहा ।   विश्वेभ्योदेवेभ्यःस्वाहा
ॐ मरुद्भ्यःस्वाहा ॐ स्वर्केभ्यःस्वाहा ।
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम ।
 ॐ  उदुत्तमंव्वरुणपाशमस्म्मदवाधमंव्विमध्यम ᳩ श्रथाय ।
अथाव्वयमादित्यव्रतेतवानागसोऽअदितयेस्याम ॥ 
ॐ आदित्यायादितये स्वाहा । आदित्यायादितये इदं न मम ।
अथ कर्मसाद्गुण्यहोमः

ॐ केशवाय स्वाहा
ॐ नारायणाय स्वाहा
ॐ माधवाय स्वाहा
ॐ गोविन्दाय स्वाहा
ॐ  विष्णवे स्वाहा
ॐ  मधुसूदनाय स्वाहा
ॐ  त्रिविक्रमाय स्वाहा
ॐ  वामनाय स्वाहा
ॐ  श्रीधराय स्वाहा
ॐ हृषीकेशाय स्वाहा
ॐ  पद्मनाभाय स्वाहा
ॐ  दामोदराय स्वाहा
 ॐ  वासुदेवाय स्वाहा
ॐ  सङ्कर्षणाय स्वाहा
ॐ  प्रद्युम्नाय स्वाहा
ॐ  अनिरुद्धाय स्वाहा
ॐ  पुरुषोत्तमाय स्वाहा
ॐ  अधोक्षजाय स्वाहा
 ॐ  नारसिंहाय स्वाहा
 ॐ  अच्युताय स्वाहा
ॐ  जनार्दनाय स्वाहा
ॐ  उपेन्द्राय स्वाहा
ॐ  हरये स्वाहा
ॐ  श्रीकृष्णाय स्वाहा
अथ पूर्णाहुतिः
अब सुरोले स्रुक्मा  चारपटक आज्य भरेर त्यसमा ताम्बूल सुपारी श्रीफल ( नरिवल ) राखी नयाँ वस्त्रद्वारा आच्छादन गरी रङ्गीनधागाले बेरेर पुनः घ्यूले भिजाएर पुष्पादिले अलंकृत गराई उठेर मनमा यज्ञपुरुष भगवानलाई ध्यानगरी पूर्णाहुती गर्ने
ॐ  यत्तेदेवाअदधुर्भागधेयममावास्ये सं वसन्तो महित्वा ।
सा नो यज्ञं पिपृहि विश्वावरेण्यं नो धेहि सुभगे सुवीरम्‌ ॥
ॐ  अग्नये पूर्णाय सप्तवते स्वाहा

ॐ  पूर्णः पश्चादुत पूर्णःपुरस्तादुन्मध्यतःपौर्णमासी जिगाय ।
तस्यादेवा
अधि संवसन्त उत्तमेनाक इह मादयन्ताम्‌ ॥
ॐ अग्नये पूर्णाय सप्तवते स्वाहा
ॐ  सप्ततेअग्ने समिधः सप्तजिह्वाः सप्तऋषयः सप्तधामप्प्रियाणि ।
सप्तहोत्रा: सप्तधात्वामजन्तिसप्तयोनीरापृणस्वघृतेन ॥ 
ॐ  अग्नये पूर्णाय सप्तवते स्वाहा । अग्नये पूर्णाय सप्तवते इदं न मम
यसरी पूर्णाहुतिगरी प्रणीताको जलले परिषेचन गर्ने
अथ उत्तरपरिषेचनम्‌ 
जलपूर्णभएकोप्रणीतापात्र दाहिनेहातमालिएर
ॐ अदितेऽन्व मᳩ स्थाः ।  अग्निको दक्षिणतिर पूर्वाग्र जलधारा दिनु
ॐ  अनुमतेन्व मᳩस्थाः ।  अग्निको पश्चिमपटिट उत्तराग्र जलधारा दिनु
ॐ सरस्वतेन्व मᳩ स्थाः ।  अग्निको उत्तरतिर पूर्वाग्र जलधारा दिनु
ॐ  देवसवितः प्रासावीः ।  पूर्वादिक्रमलेअग्निको चारैतिर जलधारा दिनु
प्रणीतापात्र आफ्ना अगाडिराखेर त्यहाँ
ॐ सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः ।
पूर्णमसि पूर्णं मे भूयाः अक्षतमसि मामेक्षेष्टाः ॥

यस मन्त्रले प्रणीतापात्रमा अरु जल राखी त्यो जल दुवै हातमालिएर
 
ॐ  देवाऋषयोमार्जयन्ताम्‌ । 
पूर्वतिर थोरै जल छोड्ने अथवा (कुशले प्रोक्षणगर्ने ) ।
यसैगरी
ॐ मासापितरो मार्जयन्ताम्‌  । दक्षिणतिर थोरै जल छोड्ने ।
ॐ  गृहाः पशवो मार्जयन्ताम्‌ । पश्चिमपट्टी थोरै जल छोड्ने ।
ॐ आपओषधयो वनस्पतयो मार्जयन्ताम्‌ । उत्तरतिर केहिजल छोड्ने ।
ॐ  यज्ञःसंवत्सरो यज्ञपतिर्मार्जयन्ताम्‌ ।
मास्तिर केहि जल छिटा दिने र आफ्नाअगाडी द्रव्यसहित केहीजल भूमीमा छोडिदिने र अवशिष्ट जलले तलको मन्त्रद्वारा आफूलाईपनि प्रोक्षण गर्ने
ॐ  सुमित्त्रियानऽआपओषधयःसन्तु ।
यसरी प्रोक्षणगरेर
ॐ  दुर्म्मित्त्रियास्तस्मैसन्तुयोस्मान्द्वेष्टियञ्चव्वयन्द्विष्म्मः ॥ 
 यसरी प्रणीतापात्रलाई घोप्ट्याइदिने
अथ दिक्पालबलिः
मण्डपको चारैदिशामा पूर्वादि क्रमले बलि दिने ।
पूर्वतिर – ॐ आद्याश्च कर्मजाश्चैव ये भूताः प्राक्‌ दिशिस्थिताः ।
प्रसन्नाः परितुष्टाश्च गृह्णन्तु बलिमुत्तमम्‌ ॥
 
दक्षिणतिर – ॐ  वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः ।
भूमौ व्योम्नि स्थिता ये च गृह्णन्तुबलिमुत्तमम्‌ ॥
पश्चितिर – ॐ  विनायकाः क्षेत्रपाला ये चान्ये बलिकांक्षिण: ।
पृषाद्या:पार्षदाश्चैव प्रतिगृह्णन्तु ते बलिम्‌॥
उत्तरतिः – ॐ  कुमुदाद्याश्च ये भूताः सर्वतो दिक्षु संस्थिताः ।
आगच्छन्तु च ते सर्वे गृह्णन्तु बलिमुत्तमम्‌ ॥
अब ब्रह्मा ( ब्राह्मण ) लाई पूर्णपात्र समर्पण गर्ने
ॐ पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
 
ॐ अद्य पूर्वोच्चारित सङ्कल्परिद्धिरस्तु अमुक गोत्रोत्पन्नः अमुक प्रबरान्वितः अमुक (शर्मा , वर्मा ,गुप्त दासोऽहं ) भगवदाज्ञया भगवतो मुखोल्लसार्थं भगवत्कैङ्कर्यरूपेण कृतस्य न्यूनातिरिक्त परिपूर्णार्थं अमुक……कर्माङ्ग भूतहोमकर्मणि कृताकृतवेक्षण रूपब्रह्मकर्म प्रतिष्ठासिद्ध्यर्थमपूर्णपूर्णार्थमिदं तण्डुलपुरितपूर्णपात्रं प्रजापतिदैवतं यथा नामदैवतं यथानामगोत्राय यथानामशर्मणे (ब्रह्मणे) वा ब्राह्मणाय तुभ्यमहं सम्प्रददे । ॐ तत्सन्नमम ।
अब पूर्वोक्तप्रकारले गोदान गर्ने
दक्षिणासङ्कल्प
अब दक्षिणाकोलागि द्रव्य आदि, दुना अथवा टपरीमाराखी यसमन्त्रले पूजागर्ने
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतःशान्तिं प्रयच्छ मे ॥
 
ॐ अद्य पूर्वोच्चारित सङ्कल्परिद्धिरस्तु अमुक गोत्रोत्पन्नः अमुक प्रवरान्वित: अमुक (शर्मा, वर्मा ,गुप्त दासोऽहं ) भगवदाज्ञया भगवतो मुखोल्लसार्थं  भगवत्कैङ्कर्यरूपेण कृतस्य न्यूनातिरिक्त परिपूर्णार्थं अमुककर्माङ्ग भूतहोमकर्मणि कृताकृतवेक्षण रूपब्रह्मकर्मप्रतिष्ठासिद्ध्यर्थमिमां द्रव्यदक्षिणां यथानामदैवतं भगवदादिभ्यः नानानामगोत्रेभ्य: जपपाठहवनादि नानाकर्मकर्तृभ्यः नानानामशर्मभ्य: सुपूजितेभ्यो ब्राह्मणेभ्यो तथा कन्याकुमारीभ्यश्व यथाभागं विभज्य दातुमहमुत्सूजे । ॐ तत्सन्नमम  ।
अब विशेष आरतीगर्ने आरती
आरती 
श्रितकमला मुखमण्डल धृतकुण्डल ए।
कलितललितवनमाल जय जयदेव हरे ॥ श्रितकमला… ।
दिनमणिमण्डलमण्डन भवखण्डन ए ।
मुनिजनमानसहंस जय जयदेव हरे ॥ श्रितकमला… ।
कालियविषधरगञ्जन जनरञ्जन ए।
यदुकुलनलिनदिनेश जय जयदेव हरे ॥ श्रितकमला… ।
मधुमुरनरकविनाशन गरुडासन ए।
सुरकुलकेलिनिदान जय जयदेव हरे॥ श्रितकमला… ।
अमलकमलदललोचन भवमोचन ए।
त्रिभुवनभवननिदान जय जयदेव हरे॥ श्रितकमला… ।
जनकसुताकृतभूषण जित दूषण ए।
समरशमितदशकण्ठ जय जयदेव हरे ॥ श्रितकमला… ।
अभिनवजलधरसुन्दर धृतमन्दर ए
श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥ श्रितकमला… ।
तव चरणे प्रणता वयमिति भावय ए।
कुरु कुशलं प्रणतेषु जय जयदेव हरे ॥ श्रितकमला… ।

श्रीजयदेव कवेरिदं कुरुते मुदम्‌ ।
मङ्गलमुज्वलगीतं जय जयदेव हरे ॥ श्रितकमला … ।

मन्त्रपुष्पाञ्जलिः

हरि: ॐ तद्विष्णो: परमं पद ᳩ  सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् तद्विप्रासो विपन्यवो जागृवा ᳩ स: समिन्धते विष्णोर्यत्परमं पदम् ।
 
पर्याप्त्याऽनन्तरायायसर्वस्तोमोतिरात्रउत्तममहर्भवतिसर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति । 
हरि: ॐ शान्ति: शान्तिः  शान्तिः ।
 
सुगन्धवल्ली शतपत्रजाती सुवर्णचम्पावकुलोद्भवानि । 
गृहाण देवेश मयार्पितानि प्रभो हरे श्रीतुलसीदलानि ॥
 
पितरं मातरं दारान्पुत्रान्वन्धून्सखीन्गुरून् । 
रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥
 
सर्वधर्मांश्च संत्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं ते व्रजं विभो ॥
 
त्वमेव माता च पिता त्वमेव 
त्वमेव वन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ 
 
पिताऽसि लोकस्य चराचरस्य 
त्वमस्य पूज्यश्च गुरुर्गरीयान् । 
न त्वत्समोऽस्त्यभ्यधिक: 
कतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 
 
तस्मात्प्रणम्य प्रणिधाय कायं 
प्रसादये त्वामहमीशमीडयम् ।
पितेव पत्रस्य सखेव सख्यु: 
प्रिय: प्रियायार्हसि देव सोढुम् ॥
 
मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्यकरण कृत्याकरणभगवदपचार भागवतापचारासह्यापचाररूप नानाविधानन्तापचारान् आरब्धकार्यान् अनारब्धकार्यान्कृतान्क्रियमाणान्करिष्यमाणांश्च ।
सर्वानशेषत: क्षमस्व ॥
 
अनादिकालप्रवृत्तविपरीतज्ञानमात्मविषयं कृत्स्नजगद्विषयं च विपरीतवृत्तं चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्वक्षमस्व ॥
 
मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवी गुणमयीं मायां दासभूतं शरणागतोऽस्मि तवास्मि दास: इति वक्तारं मां तारय ॥
 
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
 प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१॥
 
उदारास्सर्वएवैते ज्ञानी त्वात्मैव मे मतम् ।
 आस्थितस्स हि युक्तात्मामामेवानुत्तगां गतिम् ॥२॥
 
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।
वासुदेवसर्वमितिसमहात्मा सदुर्लभ: ॥३॥ 
 
पुरुषः स परःपार्थ भक्त्या लभ्यस्त्वनन्यया ।
भक्त्यात्वनन्यया शक्यः मद्भक्तिः लभते पराम्‌ ॥
इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ।
 

ॐ यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्यासन्‌ ।
तेह नाकम्महिमानःसचन्त यत्र पूर्व्वे साध्याः सन्ति देवाः ॥ 

कायेनवाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेःस्वभावात्‌।
करोमियद्यत्सकलं परस्मै
नारायणायेति समर्पयेतत्‌॥

यसरी मन्त्रपुष्पाञ्जलिगरेर चन्दनपुष्प आदिले ब्रह्माको पूजा गर्ने ॐ ब्रह्मणे नमः भनि ब्रह्मालाई पूजागरेर तल भएका मन्त्रपढ्दै ब्रह्माको विसर्जन गर्ने

स्तुता मया वरदो वेदमाता प्रचोदयन्ति पवनेद्विजाताः ।
आयुःपृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रयातु ब्रह्मलोकम्‌ ॥

भगवन्‌ देवदेवेश जगतामार्तिनाशन ।
व्रजस्व पूजामादाय पुनरागमनाय च ॥

 
ॐ यज्ञयज्ञङ्गच्छयज्ञपतिङ्गच्छ स्वां योनिङ्गच्छ स्वाहा ।
एषतेयज्ञोयज्ञपतेसहसूक्तवाकः सर्व्वव्वीरस्तञ्जुषस्व स्वाहा ॥ 
अथ परिधिहोमः
अब परिधीका आधारसमिधा र पस्तिरणका कुशहरु लिएर मन्त्र पढने
ॐ समुद्रं वःप्रहिणोमि स्वां योनिमभिगच्छत ।
अरिष्टास्माकं वीरा मापरासे चिमत्पयः ॥


यस मन्त्रद्वारा अग्निमा हालिदिने अब हातजोडेर प्रार्थना गर्ने
ॐ अग्नेनय सुपथारायेऽअस्मान्न्विश्श्वानि देवव्वयुनानिव्विद्वान्‌ ।
युयोद्ध्यस्म्मज्जुहुराणमेनो भूयिष्ठान्ते नमऽउक्तिं व्विधेमस्वाहा ॥

ॐ  चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नमः ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यत् कृतं ।
यद् हूतं च मया देव परिपूर्णं तदस्तु ते ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि च
यानि तेषामशेषेणां कृष्णानुस्मरणं परम्‌ ॥
यस्यस्मृत्या च नामोक्त्या जपहोमकृयादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्देतमच्युतम्‌॥
प्रमादात्‌ कुर्वतां कर्म प्रच्यवेताध्वरेषु यत्‌।
स्मरणादेव तद्विष्णोः सम्पूर्णस्यादिति श्रुतिः ॥

अब हातमा जल अक्षता लिएर
यथाशक्तिकृतेन अनेन होमकर्मणा यज्ञस्वरूपी श्रीमन्नारायणः परमात्मा प्रीयताम्‌
भनी जल अक्षता भूमीमा रखिदिने त्यसपछि होमगर्ने समयमा होता एवं ऋत्विक्का हातवाट कुण्डदेखि वाहिर जुन हवि भरेको छ त्यो सवै उठाएर शुद्धजलमा अथवा नदीमा राखिदिने
ऋत्विजां जुह्वतां वह्नौ बहिःपततियद्धविः ।
स ज्ञेयो वारुणोभागःप्रक्षेप्यो विमले जले ॥
यसरी स्मरणगर्ने । त्यस पछि ब्राह्मण भोजन गराउने ।
यदि विशेषकार्य केही भएमा तीर्थ, नदी आदिमा गएर स्नान गर्ने , विशेष नभएमा पूर्णकुम्भको जलले यजमानलाई ब्राह्मणहरुले अभिषेक गरिदिने
ॐ द्यौः शान्तिरन्तरिक्ष ᳩ शान्तिःपृथिवी शान्तिरापःशान्ति रोषधयः शान्तिः । व्वनस्प्पतयः शान्तिर्विश्वेदेवाःशान्तर्ब्रह्मशान्तिः सर्व ꣳ शान्तिः शान्तिरेवशान्तिःसामाशान्तिरेधि ।
 
ॐ शन्नोमित्रः शंव्वरुणः । शन्नो भवत्वर्यमा । शन्न इन्द्रो बृहस्पतिः । शन्नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्मवदिष्यामि ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु अवतु मां । अबतु वक्तारम्‌ ।
 
ॐ   शन्नोमित्रः शंव्वरुणः । शन्नो भवत्वर्यमा । शन्न इन्द्रो बृहस्पतिः । शन्नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम्‌। ऋतमवादिषम्‌  । सत्यमवादिषम्‌ । तन्मामावीत्‌ । तद्वक्तारमावीत्‌। आवीन्माम्‌ । आवीद्वक्तारम्‌॥
 
ॐ  सह नाववतु । सह नौ भुनक्तु । सहवीर्यङ्करवावहै ।
तेजस्विनावधीतमस्तु । माविद्विषावहै ।
ॐ  शान्तिः शान्तिः शान्तिः ॥
अब ब्राह्मणहरुले जितन्तेस्तोत्र, मङ्गलाष्टक आदिद्वारा आशीर्वाद दिने
 
इति वैष्णवानां हवनविधिः

Leave a Reply

Your email address will not be published. Required fields are marked *