॥ ध्रुव स्तुतिः ॥

द्रष्टव्यं :
स्तोत्रेषु कुत्रापि अशुद्धो विद्यते तु अधः कमेन्टकोष्ठे संसूचयन्तु तेन महान्तः धन्यवादाः

॥ ध्रुवस्तुतिः ॥

ध्रुव उवाच
योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महदाद्यशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥
त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: ।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥
नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमोक्षणमन्यहेतो: ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्य-
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नृणाम् ॥ ९ ॥
या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥
 भक्तिं मुहु: प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्त: ॥ ११ ॥
 ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं
ये चान्वद: सुतसुहृद्गृहवित्तदारा: ।
ये त्वब्जनाभ भवदीयपदारविन्द
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गा: ॥ १२ ॥
 तिर्यङ्‌नगद्विजसरीसृपदेवदैत्य
मर्त्यादिभि: परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाद्यनेकं
नात: परं परम वेद्मि न यत्र वाद: ॥ १३ ॥
 कल्पान्त एतदखिलं जठरेण गृह्णन्
शेते पुमान्स्वद‍ृगनन्तसखस्तदङ्के ।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥
 त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीश: ।
यद्बुद्ध्यवस्थितिमखण्डितया स्वद‍ृष्टय‍ा
द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥
 यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्ब्रह्म विश्वभवमेकमनन्तमाद्य-
मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
सत्याशिषो हि भगवंस्तव पादपद्म-
माशीस्तथानुभजत: पुरुषार्थमूर्ते: ।
अप्येवमर्य भगवान्परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
॥ ध्रुवस्तुतिः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *