॥ प्रातःस्मरणम् ॥

द्रष्टव्यं :
स्तोत्रेषु कुत्रापि अशुद्धो विद्यते तु अधः कमेन्टकोष्ठे संसूचयन्तु तेन महान्तः धन्यवादाः

श्रीगणेशप्रातःस्मरणम्

उत्तिष्ठोत्तिष्ठ हेरम्ब  उत्तिष्ठ ब्रह्मणस्पते।
सर्वदा सर्वत:सर्वविघ्नान्मां पाहि विघ्नप॥१॥
आयुरारोग्यमैश्वर्यं मां प्रदाय स्वभक्तिमत्।
स्वेक्षणाशक्तिराद्या ते दक्षिणा पातु मां सदा॥२॥

प्रात:स्मरामि गणनाथमनाथबन्धुम्।
सिन्दूरपूरपरिशोभितगण्डयुग्मम्।
उद्दंडविघ्नपरिखण्डनचण्डदण्डम्।
आखण्डलादि-सुरनायकवृन्दवन्द्यम् ।।३॥

प्रातर्नमामि चतुराननवन्द्यमानम्।
इच्छानुकूलमखिलं च वरं ददानम्।
तं तुन्दिलं द्विरसनप्रिय यज्ञसूत्रम्।
पुत्रं विलासचतुरं शिवयोः शिवाय॥४॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुञ्जरास्यम्।
अज्ञानकाननविनाशनहव्यवाहम्
उत्साहवर्धनमहं सुतमीश्वरस्य॥५॥

कराग्रे सत्प्रभा बुद्धिः कमला करमध्यगा।
करमूले मयूरेश: प्रभाते कर-दर्शनम् ॥६॥
ज्ञानरूपवराहस्य पत्नी कर्मस्वरूपिणि।
सर्वाधारे धरे नौमि पादस्पर्श क्षमस्व मे॥७॥
तारश्रीनर्मदादूर्वा-शमीमन्दारमोदित।
द्विरदास्य मयूरेश दुःस्वप्नहर पाहि माम् ॥८॥
वक्रतुण्ड-महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥९॥
गणनाथसरस्वतीरविशुक्रबृहस्पतीन्।
पञ्चैतानि स्मरेन्नित्यं वेदवाणीप्रवृत्तये॥१०॥
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान्।
सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥११॥
अभीप्सितार्थसिद्ध्यर्थ पूजितो यः सुरासुरैः।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः॥१२॥
अगजाननपद्मार्कं गजाननमहर्निशं।
अनेकदं तं भक्तानामेकदन्तमुपास्महे॥१३॥
नमस्तस्मै गणेशाय यत्कण्ठ: पुष्करायते।
यदाभोगधनध्वान्तो नीलकण्ठस्य ताण्डवे॥१४॥
कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि॥
विघ्नानि नाशमायान्तु  सर्वाणि सुरनायक ॥१५॥
नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद।
नमस्ते देवदेवेश नमस्ते गणनायक॥१६॥
॥ इति प्रात:स्मरणम् ॥