॥ चाक्षुषोपनिषद् ॥
॥ चाक्षुषोपनिषद् ॥
विनियोगः
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिर्गायत्री छन्दःसूर्योदेवता चक्षूरोगनिवृत्तये जपे विनियोगः ।
ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव ।
मां पाहि पाहि । त्वरितं चक्षूरोगान् शमय शमय ।
मम जातरुपं तेजो दर्शय दर्शय ।
यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय ।
कल्याणं कुरु कुरु ।
यानि मम पूर्वजन्मापार्जितानि चक्षुः प्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नमः करुणाकरायामृताय । ॐ नम सूर्याय ।
ॐ नमो भगवते सूर्यायाक्षितेजसे नमः ।
खेचराय नमः । महते नमः । रजसे नमः ।
तमसे नमः ।
असतो मा सद्गमय तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
उष्णो भगवाञ्छुचिरुपः ।
हंसो भगवान् शुचिरप्रतिरुपः ।
य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति ।
न तस्य कुले अन्धो भवति ।
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति ।
ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा ।
॥ श्रीकृष्णजुर्वेदीया चाक्षुषी विद्या ॥
Kindly examine: IV line from the last of Chakshushopnishad: replace ब्राम्हण by ब्राह्मण
Thanks for the suggestion